________________
[ ६ ]
१७२५ (१६६६ ई.) प्रयाणकालश्च संवत् १८०० ( १७४४ ई.) तोऽनन्तर - मित्यनुमीयते ।
वृत्तमुक्तावली
वैदिकच्छन्दःसु, संस्कृतवृत्तजातिषु व्रजभाषा च्छन्दः सु च समानमधिकारं लब्धवता श्रीकृष्णभट्टेन विलिखितश्छन्दः शास्त्र विवेचनपरोऽयं ग्रन्थः पूनातः समुपलब्धोऽभूत् । ग्रन्थेऽस्मिन् वैदिक-लौकिक व्रजभाषादिच्छन्दसां सोदाहरणं विवेचनं ग्रन्थकृता विहितं स्वनिर्मितान्युदाहरणानि च प्रदाय ग्रन्थस्य महत्त्वं समेधितमित्यादिविशेषानालोच्य मयाऽस्य प्रतिलिपि: सामान्यसंशोधनैः सह विहिता, राजस्थानपुरातत्त्वान्वेषण मन्दिरस्य संस्थापनानन्तरं श्रीकृष्णभट्टविरचितस्य 'ईश्वरविलास' महाकाव्यस्य प्रकाशनमेतस्य सम्मान्य-संचालकेन श्रीजिनविजय मुनिना स्वीकृतमासीत्। अनेनैव प्रसङ्गेन श्रीकृष्णभट्टविरचितां वृत्तमुक्तावलिमिमामहं संचालक महोदयाय, पुरातत्त्वसंस्थानस्यास्यान्येभ्यो निर्णायकसदस्येभ्यश्चादर्शयम | पुरातत्त्वमार्मिकेन सञ्चालक महोदयेन राजस्थानस्य धुरन्धरविदुषोऽस्याः कृतेः प्रकाशनाय प्रोत्साहितोऽहम् । तस्यैव महाभागस्य पर्यवेक्षणे सेयमद्य पाठकानां पुरस्तादुपतिष्ठत इति परमं प्रमोदमावहन् श्रीमुनिमहोदयमनेकैर्धन्यवादैरभिनन्दामि ।
प्रसङ्गेऽस्मिन् पुनः सकृद् भाण्डारकर प्राच्य - शोधसंस्थानाध्यक्षः श्री पी. के. गोडे महोदयः स्मरणपथमारोति, येन सर्वतः प्रथमं पुस्तकस्यास्य पाण्डुलिपिरधिगता, परिचायिता च पण्डितमण्डलेषु । प्रतोव खेदस्यायं विषयो यदस्याः प्रकाशनात्पूर्वमेव श्रीगोडे महोदयो दिवमारूढः । महाशयस्यास्योपकारभारं शिरसा वहन् जयपुरस्य स्व० श्रीहरिनारायणपुरोहितमहोदयमपि साभारं स्मरामि यत्सोजन्येन 'वृत्तमुक्तावल्या :' पाण्डुलिपि: पूनातः सुलभाऽभवत् । राजस्थानपुरातत्त्वमन्दिरस्योपसञ्चालकाय श्रीगोपालनारायणशर्मं एम. ए., महोदयायापि साशीरभिनन्दनानि प्रलिमानि येन पाण्डुलिपीनां मुद्रणसमये स्थाने स्थाने संशोधनानि मह्यं बोधितानि वैदिकछन्दः प्रकरणे छन्दोनाम्नां तुलनात्मकमवेक्षणं विधाय संशोधने च साहाय्यमाचरितम् । श्रायुष्मान् चि० कलानाथशास्त्रिसाहित्याचार्य:, एम. ए. ( आंग्ल - साहित्ये ) अपि शुभाशीर्भिरभिनन्दनीयो येन ग्रंथसम्पादने, संशोधने, भूमिकालेखने च मे भूयस्तरां साहाय्यं विहितम् । अनेन हि विलिखित: श्री पी. के. गोडे महोदयस्य गवेषणानां सारसंक्षेपः, पुस्तकस्य परिचयश्चात्रैव प्रकाश्यते पाठकानां प्रमोदाय |
भृशमवदधतोपि मे संशोधने प्रतिलिपीकरणे च यास्त्रुटयः समभूवन् विज्ञा: पाठकास्ताः क्षमिष्यन्त इत्याशासे । वैदिकच्छन्दः प्रकरणेऽन्यत्र च यत्र पाण्डुलिपिस्त्रुटिताऽशुद्धा चाऽऽसीत् तत्र यथामति संशोधनाय प्रयतितवानस्मि,