________________
[ ५ ] महाराजस्येश्वरीसिंहस्य कारुणिकनिधनानन्तरं माधवसिंहो राज्यासनमारुरोह । तदर्थमनेन 'पद्यमुक्तावलो'' समुपगुम्फिता। भरतपुराधीशस्य श्रीसूर्यमल्लस्य राजसभायां सम्मानं लब्धवताऽनेन 'दुर्गाभक्तितरङ्गिणी' ग्रन्थोपि तत्प्रेरणया विरचितः। जयपुरधराधीशेन सादरमस्मै प्रदत्ता ग्रामसम्पत्तिरधुनाऽप्यस्य वंशजैरुपभुज्यते । अयं वेदान्त-मीमांसा-योग - साहित्य - व्याकरणादीनां धुरन्धरो विद्वान्, संस्कृत-प्राकृत-व्रजभाषादीनां समर्थः कविः, सुप्रथितो मन्त्रवेत्ता, महान् याज्ञिको, वेदार्थपारगश्चासीदिति 'कुलप्रबन्ध' कर्तुः श्रीहरिहरभट्टस्यानेन पद्येन सुशकं ज्ञातुम्मीमांसापरिशीलने पटुमतिः सांख्याब्धिपारङ्गमो
न्यायाऽनर्गलवाक्प्रपञ्चचतुरो वेदान्तसिद्धान्तधीः । काव्य-व्याकृतिवृत्तकोषकुशलोऽलङ्कारसर्वस्ववित्
श्रीकृष्णः कविपण्डितो विजयते वाणीविलासालयः ।। एतद्विरचिता बहवो ग्रन्था मत्सकाशे विद्यन्ते । बहवस्तु पूनास्थ-भाण्डारकरओरिएन्टल रिसर्च इन्स्टिट्यूट प्रभृति प्राचीनग्रन्थागारेषु सुरक्षिताः शनैः शनर्गवेषकाणां परिश्रमेण प्राकटयमायान्ति ।
प्रद्यावध्युपलब्धा एतल्लिखिता ग्रन्थाः- (संस्कृते) ईश्वरविलासमहाकाव्यम्, पद्यमुक्तावली, वृत्तमुक्तावली, प्रशस्तिमुक्तावली, त्रिपुरसुन्दरीस्तवराजः, वेदान्तपञ्चविंशतिः, रामगीतम्, इत्यादयः ।
(व्रजभाषायाम्)-अलङ्कारकलानिधिः, सांभर-युद्ध, जाजऊजुद्ध, बहादुरविजय, जयसिंहगुणसरिता, शृङ्गाररसमाधुरी, विदग्धमाधवमाधुरी, तैत्तिरीयाद्युपनिषदामनुवादः, रामचन्द्रोदयः, रामरासा, वृत्तचन्द्रिका, नखसिखवर्णन, दुर्गाभक्तितरङ्गिणी, इत्यादयः ।
महाराज-सवाईजयसिंहेनास्मै 'कविकलानिधि' इत्युपाधिरपि प्रादीयत । .
भाण्डारकरप्राच्य-शोध-संस्थानाध्यक्षेण स्व० श्री परशुरामकृष्ण गोडे महाभागेनैतल्लिखिता बहवो ग्रन्था: पूनास्थितराजकीयपाण्डुलिपिभाण्डागारादधिगताः । मदुपरि निर्मायं स्नेहभावमारक्षतानेन वृत्तमुक्तावल्या: ईश्वरविलासमहाकाव्यस्य च पाण्डुलिपयो दर्शनार्थमत्र प्रेषिताः । अनेन श्रीकृष्णभट्टस्य परिचायकानि शोधपत्राण्यपि पत्रिकासु प्रकाशितानि । श्रीकृष्णभट्टस्य जन्मकाल: संवत्
' राजस्थानपुरातत्त्वान्वेषणमन्दिरात्प्रकाशिता । २ दृश्यतां :साहित्यवैभवम्' पृ. ५७६ ।