________________
प्रारम्भिकं निवेदनम्
काव्यकल्पनाकारु, कृपयतु मयि तेजः किमपि ।
मनसि चकासतु चारु-चरणसरोरुहरेणवः ।। सुरसरस्वत्याः साहित्ये छन्दसां, तद्विवेचनपरस्य छन्दःशास्त्रस्य च किं नाम महत्त्वमिति कस्य वा सचेतसो बोधनीयं स्यात् ? "छन्दः पादौ तु 'वेदस्ये' त्युद्घुष्य निखिलवाङ्मयमुकुटायमानस्य वेदस्याङ्गत्वेन छन्दःशास्त्रस्यावश्यपठनीयत्वं प्रसेधितमासीदार्यमनीषिभिः । वैदिकसाहित्यस्याधिकतमो भागश्छन्दोनिबद्ध इति तु सुविदितमेव सुधियाम् । अत एव हि वैदिकसाहित्यस्य नामैव 'छन्द' इत्यभिधीयते स्म पुरा । 'छन्दसि' 'लोके' इति भेदकशब्दाभ्यां वैदिकलौकिकसाहित्ययोरभिधानं क्रियते स्म । वेदे हि येषां छन्दसामुपयोगोऽस्ति तेषां लोके प्रचारः कथमारब्धः, कथं चान्यान्येषामपि छन्दसां लोके सृष्टिरभूदित्येतद् वाल्मीकीयरामायणेऽनुष्टुप्छन्दसो वाल्मीकिमुखान्निर्गमनकथया ज्ञायते । तमसानदीतटे विचरतस्तस्य क्रौञ्चमिथुनादेकस्मिन् व्याधशरविषयतामापन्ने तमनुशोचन्त्या: क्रौञ्च्याः शोकविह्वलतां वीक्ष्य कारुण्योद्गारः श्लोकरूपेण मुखान्निर्गत इति कथा तथ्यस्यास्योद्बोधिका यन्मानसानां भावानामावेगेनोत्थापितानामुद्गाराणामभिव्यक्तिवाञ्छा छन्दसो जन्मदात्री लोके । तदेवाभिहितं कविकुलगुरुणा कालिदासेन
'तामभ्यगच्छद् रुवितानुसारी मुनिः कुशेष्माहरणाय यातः ।
निषादविताण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥' परिमिताक्षरपदामिमां भारती 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वती: समाः। यत्क्रोञ्चमिथुनादेकमवधीः काममोहितम्' इत्युक्तवतो वाल्मीर्मनसि कौतूहलविस्मयावुदभूताम् । 'कुतोऽयं वेदादितरत्र छन्दसोऽवतारः' इति। किन्तु ब्रह्मणाऽऽदिष्टोऽसौ-श्लोक एव त्वया बद्धो नात्र कार्या विचारणा। xxx रामस्य चरितं कृत्स्नं कुरु ।' x x x तदेवं लोके सर्वादिमस्य छन्दसः काव्यस्य चावतारोऽभूत् । आदिमेऽप्यस्मिन् काव्ये न केवलं श्लोकस्य (अनुष्टुभः), अपि तूपजातिपुष्पिताग्रावंशस्थादीनामनेकेषां छन्दसामुपयोग इति वृत्तभेदानामियत्त्वरितं लोकप्रियतामेव पिशुनयति । ___ छन्दसः कविकर्मणा सम्बन्धः-छन्दसो लोके समारम्भानन्तरं तस्य लोकप्रियता नूनमनेनैवानुमातव्या यच्छास्त्राणि, विज्ञानानि, कोषादयः सर्वेऽपि विषया