SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [प्रथमो नियमः भविष्यन्ति । किं च पिङ्गलं प्रणम्य छन्दःशास्त्राचार्यम् । अवलेपचिह्नं च कविमुख्यं विशेषेण नत्वेति योजनीयम् । किंभूतो विरहलाञ्छनः । कामिन्या उत्तमाया योषितः कपोललक्ष्मणा गण्डशोभाअवयवेन सदृशः परितनु(नुः) बुद्धिविभवो मतिविस्तारो यस्य । अनेन स्वविशेषणद्वारेण नासूक्ष्मदर्शितारोऽस्मिन् मुखेराववगतिरिति (?) दर्शिता । देवतादिनमस्कारेणानेककल्मषप्रभवविघ्नोपशमार्थ सर्वकार्यारम्भेषु अभिमतदेवतानमस्कारो विधेयः पुंसी(से)ति या शिष्टस्मृतिस्तामाचार्योऽप(नु)सृतवान् । अन्यच्चास्मिन्प्रयोजनमस्त्येव । देवतागुरुपूर्वाचार्यसत्कविनमस्कारेणास्मिन् शास्त्रे तदनुग्रहतदुपदेशतः शास्त्रपर्यालोचना तन्निबन्धनदर्शनानि कारणत्वेनाभिमतान्याचार्यस्य । किमेतस्मिन्प्रयोजनमित्युच्यते । भगवतीप्रसादादन्यैर्यन्न दृष्टं तन्मयेह संगृहीतमिति दर्शितम् । गुरूणां नमस्कारेण स्वविकल्पविरचनया शास्त्रमार्गातिक्रमदोषः परिहृतः । पिङ्गलप्रणाम[न] तच्छास्त्रालोचनतया तस्मादव्याप्तिनेहास्तीत्युक्तम् । सत्कविस्तुत्या तन्निबन्धविवेकेन यानि महाकविप्रबन्धेषु दृश्यन्ते [तद्वृत्ता विपरीतानीह निबद्धानीति आविष्कृत[म्] । दृष्टादृष्टफलत्वात् । द्विविधे(ध) हि वृत्तानां भगवद्वाल्मीकप्रमुखैमुनिभिः प्रयोजनं दृष्टं दृष्टादृष्टरूपम् । तेन यैरिदानींतनैराचार्यैः 'अनेन प्रन्थशतेन निबद्धम् , अहं सहस्रेण विरचयिष्यामि' इत्येतावता प्रयोजनेनाधिक्यमभिधीयते । तन्नाभिमतं विमलधियाम् । यदि नाम ग्रन्थगौरवमेव शास्त्रकरणे प्रयोजनं स्यात् तद्ग्रन्थकोटिभिरपि छन्दोविचिते१रवगाहत्वान्न किंचिदुक्तं स्यात् । तस्माल्ललितं नानाप्रबन्धदृश्यं च भेदजातमतिक्रम्य यैर्बहुत्वमात्रप्रयोजनेन प्रयासः क्रियते न तत्रादरः सद्भिर्विधेय इति । यथा च दयितायै साधयति तथा सकललोकप्रसिद्धमिह नोक्तं निःप्रयोजनप्रन्थगौरवभयात् । विरहलाञ्छनादीनां किमियं रूढिरुताहो व्युत्पत्तिमती संज्ञा इति नाभिनिवेष्टव्यिम् । निःप्रयोजनत्वादेवेति ॥२॥ वृत्तभेदानां दिक्प्रर्शनद्वारेण स्वप्रतिज्ञामाह-जं जिअलोअ इति । जं जिअलोए दुविहं मत्तावित्तं च वण्णवित्तं च। तस्स मए तुह लक्खेण लक्खणं सीसइ नअंगि ॥ ३॥ यज्जीवलोके द्विविधं मात्रावृत्तं च वर्णवृत्तं च । तस्य [म]या तव लक्षणे(क्ष्येण) लक्षणं शिष्यते नताङ्गि ॥ ३ ॥ तस्य वृत्तस्य मया तव नताङ्गि तन्वि लक्ष्येणोदाहरणद्वारेण लक्षणं विधानं शिष्यते कथ्यते । कस्येत्याह । जीवलोके संसारे यद् द्विविधं द्विप्रकार मात्रावर्णभेदेन गाथाश्लोकादिरूपेण प्रसिद्धमिति शेषः । जीवलोकस्य प्रसिद्ध(द्धि)प्रयोजनं पूर्वोक्तमेव । एतद्भेदद्वये स्वत्वमुपलक्षण(ण) प्राधान्यात् । सांकर्येणास्यानेकभेदाः संभवन्ति । तद्यथा । मात्रावर्णसमं स्नग्धरादि । मात्रासमे(मं) वर्णविषमं विलासिन्यादि । मात्रार्धसमं वर्णविषमं द्विपथकादि । मात्राविषमं वर्णविषमं मात्रादि । मात्राविषमं वर्णसमं च श्लोकादि । मात्रार्धसमं वर्णार्द्धसमं च सारसिकावस्तुकादीनि । अन्ये च शतशो वृत्तानां भेदाः संभवन्त्येवेति ॥ ३॥ k In the tran. Com: has पक्ष्म; but here लक्ष्म = शोभा ? २ गुरुणा. AB. ३ सत्कविः स्तुत्वा AB. ४ सिद्धमिह नोक्तं repeated in B. ५ भेदद्वयमन्येषामुप०१६मात्रार्धसंवर्ण AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy