________________
श्री गोपालकृतटीकयोपेतः विरहाकृतः वृत्तजातिसमुच्चयः ।
प्रथमो नियमः।
एतैर्निजासितसरोजदलाभिरामा कान्तिर्जितेत्यसहमान इवाञ्जनेन । शून्यानि यस्त्रिदशवैरिविलासिनीनां नेत्रोत्पलानि विदधेऽस्तु स वो हिताय ॥१॥
नत्वा पिङ्गलसैतवकात्यायनभरतकम्बलाश्वतरान् । विरहाकविरचितायाश्छन्दोविचितेः करोम्यहं व्याख्याम् ॥ २ ॥ पुस्तकलेखकदोष(षा)दसंस्कृतानां मुखे च पतितत्वात् । प्रभ्रष्टा ये पाठा ये चान्यैरन्यथा रचिताः ॥ ३॥ तानाप्तेभ्यो नामा(ना)पुस्तकसंदर्शनात्समाहृत्य ।
अन्येभ्यः शास्त्रेभ्यः स्वधिया च विचार्य रचितेयम् ॥ ४ ॥ ___प्रथमं तावद्गाथायुगलेनाभिमतदेवादिनमस्कारश्च व्यापारो (?) दर्शयितुमाचार्य आहदेई सरस्सइम् इति ।
देई सरस्सई पणमिऊण गरुअकइगंधहत्थिं च। सम्भावलंछणं पिंगलं च अवलेवइण्हं च ॥ १॥ कामिणिकवोलपम्हपरितणुवबुद्धिविहवोवि दइयाए। .. साहइ समुच्चयं विरहलंछणो वित्तजाईण ॥ २ ॥ देवी सरस्वतीं प्रणम्य गुरुककविगन्धहस्तिनं च । सद्भावलाम्छनं पिङ्गलं चावलेपचिह्नं च ॥१॥ कामिनीकपोलपक्ष्मपरितनुबुद्धिविभवोऽपि दयितायै ।
साधयति समुच्चयं विरहलाञ्छनो वृत्तजातीनाम् ॥२॥ - वृत्तजातीनां समुच्चयं छन्दोवचयविशेषणा(षाणां) सारसंग्रहं विरहलाञ्छनाख्य आचार्य(र्यो) दयितायै सौधयति कथयति । किं कृत्वा, देवी सरस्वती भगवतीं वागीश्वरीं प्रणम्य स्तुत्वा सद्भावलाञ्छनं स्वगुरुं च स्तुत्वा । कीदृशं । गुरु[क]कविगन्धहस्तिनम् । गुरव एव गुरुकाः स्वार्थे कः। अन्ये त्वाहुः । प्राकृतभाषायामेव लालित्यार्थमेवं रूपं न तु संस्कृते । अर्थान्तरासंभवात् । तेन गुरवश्च ते कवयः गुरुकवयः इत्येवं साधीयः । गन्धहस्ती वरगन्धहस्ती। गुरुकवीनां गन्धहस्ती गुरुकविगन्धहस्ती तं हि । गन्धहस्तिभयाद्धि सामान्यद्विपाः स्वजन्मभूमि वनमप्युत्सृजन्ति । किमु संमुखा १ एतैर्दामितसरोज. AB. २ मुखं च AB. ३ लक्ष्म Com. ४ साधयन्ति कथयन्ति AB. ५ सामान्यसामान्य द्विपाः AB.