________________
सटीको वृत्तजातिसमुश्चयः - [षष्ठो नियमः IISIS.SI SII S| अनेक क्रमेण संस्थाप्य अन्तिमेन षोडशस्य मणेरधःस्थितेन एककेन प्रतिलोमं पञ्चदशाधःस्थितं चतुष्कं गुणयेत् । एकेन एतद्गुणितं तत्स्वरूपमेव भवति (१५)। अनन्तरं] आदिगुरुस्वरूपस्य शेषं विप्रांश एको यो भवति तस्मिन्मुक्ते त्रिकं [सं]पद्यते । तेन] पश्चाच्चतुर्दशाधःस्थितस्यैककस्य गुणनात् [त्रयमेव भवति (१४)। शेषाभावात् त्रयोदशाधःस्थितस्य चतुष्कस्य गुणनेन द्वादश संपद्यन्ते । ततश्च शेषाणां करचरणविप्राणां त्यागात् नव जायन्ते (१३) । तैादशाधःस्थितस्य पञ्चकस्य गुणनात् पञ्चचत्वारिंशद्भवन्ति त्रयाणां नरेन्द्रचरणविप्राणां शेषाणां [च] त्यागात् द्वाचत्वारिंशत् शिष्यन्ते (१२) । तैरपि एकादशाधःस्थितस्य चतुष्कस्य गुणने त्रयाणां च शेषाणां करचरणविप्राणां मोक्षात्पञ्चषष्टयधिकस्य शतस्यावस्थानम् (११) । ततोऽपि तेन दशमाधःस्थितस्य पञ्चकस्य कलनाच्चतुर्णामन्तगुरुमध्यगुरुआदिगुरुसवलघूनां त्यागादेकविंशत्यधिकानि अष्टौ शतानि जायन्ते (१०)। तैश्च नवमाधोवर्तिनः चतुष्कस्य गुणनात् द्वयत्यागाच्च सहस्रत्रयं यशीत्यधिकं च शतद्वयं संपद्यते (९) । एवं द्वितीयेर्धे निर्णीते अष्टमे चैकके तेन] तत्स्वरूप एव गुणिते शेषस्याभावः (८)। पश्चात्सप्तमस्य द्विगुरोरधश्चतुषु गुणितेषु त्रिषु च मुक्तेषु त्रयोदशसहस्राणि शतं च पञ्चविंशत्यधिक भवति (७) । तेनापि षष्ठस्य मध्यगुरोरधो द्वयोः संकलनादेकस्यैव च विप्रस्य त्यागात् षड्विंशतिसहस्राणि शतद्वयमेकोनपञ्चाशदधिकं भवति (६)। पञ्चमे चतुर्पु गुरुद्वयावस्थितेषु मुक्तेषु शेषेषु लक्षं चत्वारि सहस्राणि नवशतानि त्रिनवत्यधिकानि भवन्ति (५)। तैरपि चतुर्थे मध्यगुरोरधः पञ्चानां कलनाच्छेषस्य गणद्वयस्य त्यागात् पञ्चलक्षाणि चतुर्विंश[ति]सहस्राणि नवशतानि त्रिषष्टयधिकानि भवन्ति (४)। तैश्च तृतीये द्विगुरोरधश्चतुर्णां गुणात् त्रयाणां त्यागौत् विंशतिलक्षाणि नवनवति]सहस्राणि अष्टौ शतानि चैकोनपञ्चाशदधिकानि भवन्ति (३)। तैरपि द्वितीयेऽन्तगुरोरधः पश्चानां संकलनात् त्रयाणां च त्यागादेका कोटिर्लक्षाणि च [चत्वारि नवनवतिसहस्राणि द्वि]चत्वारिंशदधिके च शते द्वे संपद्यते । ततश्च प्रथमेन्तगुरोरधस्तैश्चतुर्णां गुणनात् द्वयोश्च वर्जनात् कोट्यश्चतस्रः एकोनविंशतिर्लक्षाणि षण्णवतिसहस्राणि नवशतानि [षट्]षष्टय धिकानि भवन्ति । तत्प्रमाणा गाथेयमिति कथनीयमिति ॥ ३९ ॥ उद्दिष्टविधेरनन्तरं यदुक्तं पुरओ णटुं विआणेहीति तदाह-सविअप्पेण इति ।
सविअप्पेणव्वणिए सुद्धे रासिंपि(मि) अंतिम कुणह । सेसे सरूवअं चिअ लद्धे सेसे गणं देहि ॥४०॥
स्वविकल्पेनोवृत्ते शुद्धे राशावन्तिमं कुरु । शेषे स्वरूपमेव लब्धे शेषे गणं देहि ॥ ४० ॥
१ AB add पञ्चदश्यां गाथायां after this word. २ Com. obviously reads विआणिाहसि as he counts the I5th gana as आदिगुरु. ३ चतुर्दशस्य गुणनागुणनात् AB. ४ गुणाननुयाणां च AB. ५ चतुष्कसंख्यानां गणन AB. ६ स्योक्तेषु AB. ७ षड्विंशत्यधिकं AB. ८ व्यक्तेषु AB. ९ लक्षणं AB. १० त्रिपत्यधिकानि AB. ११ गुणानां AB. १२ त्यक्तानां AB. १३ सवसुप्पणेति A; सवसुप्पाणति B. १४ मत्तधों AB. १५ हेहि AB.