________________
सटीको वृत्तजातिसमुच्चयः
चितुर्थों नियमः नूपुरभावमणिं सरसं यदि मौक्तिकं प्रेक्षसे पीनपयोधरे स्पर्शयोयुगम् ।
पाद[युगं च] सनूपुरं पुरतः स्थितं जानीहि लक्षण(णे) मनोहरं दयिते ॥ ७७ ॥ तन्मनोहरं रमणीयं लक्षणे जानीहि । यस्याः प(पा)दे नू पुरश्च भावश्च मणिश्च तद्यदि प्रेक्षसे सह रसेन वर्तमाने(नं) मौक्तिकं गुरुं अनन्तरं च यदि स्पर्शयुगं पश्यसि पुरतश्चाने पादयोयुगं सह नूपुरे[ण] वर्तमानम् । चरणाः पञ्च गुरुश्चेत्यर्थः ॥ ७७॥ ततः किं भवतीत्याह–इअ पाआण इति ।
इअ पाआण चउण्हवि अंते गाहा पउंजए जत्थ । सोआणअंति णामं तस्स कई(ई)हिं विणिम्माअं ॥ ७८ ॥ [सोपानकं] ।
इति पादानां चतुर्णामन्ते गाथा प्रयुज्यते यत्र ।
सोपानक इति नाम तस्य कविभिर्विनिर्मितम् ॥ ७८ ॥ इअ इति । पादचतुष्टयस्यान्ते गाथायाः सोपानक इति नाम भवति ॥ ७८॥ - पढम इति।
पढमणिरूविअअं जइ से गंअंदअं
बीअं संदणअं तइअं तुरंग। जइ बाणासणअं विरमे धअग्गअं
जीों सुमणोहरंगिअ सालभंजिअं ॥ ७९ ॥ [सालभञ्जिका] । प्रथमनिरूपितो यद्यस्य गजेन्द्रः द्वितीयः स्यन्दनस्तृतीयस्तुरंगः ।
यदि बाणासनं विरामे ध्वजाग्रं जानीहि मनोहराङ्गि तां सालभञ्जिकाम् ॥ ७९ ॥ [तां सालभञ्जिकां] जानीहि यदि गजेन्द्रादयः पादे निरूपिता भवन्ति ॥ ७९ ॥ त्रिकलकादीनां लक्षणमाह-जई तिअलअस्स इति ।
जइ तिअलअस्स पुरओ दिजई गाहा तलं" ति तं जाण । पुरओ अंते अ जहिं णअंगि तं तालविण्ह(ण्ठ)त्ति ॥ ८० ॥ [तल-तालवृन्ते] ।
यदि तृ(त्रि)कलकस्य पुरतो दीयते गाथा तलमिति तत् जानीहि ।
पुरतोन्ते च यदि नताङ्गि तत्तालवृन्तमिति ॥ ८ ॥ त्रिकलकस्याद्यस्थितया गाथया तदा(ला)ख्येत्युत्पद्यते तस्यैवाद्यन्तवर्तिन्या तया तालवृन्तसंज्ञा भवति ॥ ८०॥
साअर इति ।
१ दयिते तन्मनोहरं repeated after this word in both A & B. २ नूपुरास्य AB. ३ रेसे च AB. ४ चेदित्यर्थः AB. ५ सौधानामक इति AB. ६ गअंदइयं AB. ७ जाणसु मणो० Com. ८ सुमणोहरत्तिअं AB. ९ त्रिकाभिकादीनां. १० धइ तिअआलस्सेति. ११ तलम्मि तं AB. १२ तालवृन्तमित्तमिति AB.