SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः यस्मिन् लक्षणवाक्ये नाराचमुक्तं तस्मिन् तस्य नाम विरुध्यते । उदाहरणव्याघातात् । येन कारणेन तेन तस्मान्नाम्नो निदर्शनं उदाहरणं केवलं पृथग्भणितम् ॥ ५८ ॥ आह च-ससद्द इति । ससद्दणेउरं घरं __ सरूवकुंडलं रवं। ठवेसु तस्स पाअए विरामए सहारअं ॥ ५९॥ नाराअअं [नाराचकं । सशब्दनूपुरं ध्वजं सरूपकुण्डलं रवम् । स्थापय तस्य प(पा)दे विरामे सहारम् ॥ ५९ ॥ तस्य नाराचस्य प्रथमं सशब्दं नूपुरं स्थापय पश्चात् ध्वजमनन्तरं सरूपं च कुण्डलं रथं(वं) सहारं च ततः । ध्वजपटाश्चत्वार इत्यर्थः ॥ ५९॥ गअरह इति । गअरहतुरंगसंदणणिउत्तजोहेहिं रणअविरुद्धणराहिवविलग्गसोहेहिं । छ?णिरूविअमरगअविरामजमएहिं ललिअं ठवेसु सुंदरिए समपाअएहिं ॥ ६०॥ [ललिता] । गजरथतुरंगस्यन्दननियुक्तो(क्त)योधैः रणे नविरुद्धनराधिपविलग्नशोभैः । षष्ठनिरूपितमरकतविरामयमकैर्ललितां स्थापय सुन्दरिके समपादैः ॥ ६० ॥ गजादिभिः सह नियुक्तो योधो येषां ते । तथा पञ्चभिश्चतुर्मात्रैः पादः कार्यः । रणे समेऽविरुद्धे च नराधिपे विलग्ना शोभा येषां षष्ठे च निरूपितं मरकतं [तैः] विरामयमकैः ललितां स्थापय ।। ६०॥ रस इति । रसणेउरभावमणीण जुअस्स जुरं णिअमेण णिउंजसु रूअजुअं समणि । भवरावलिआइ सुदूरमणोहरए ललिअक्खरपंतिपसाहणसोहिअए ॥ ६१ ॥ [भ्रमरावलिः] । रसनूपुरभावमणीनां युगस्य युगे(ग) नियमेन नियुक्ष्व रूपयुगं समणिम् । भ्रमरावल्यां सुदूरमनोहरं ललिताक्षरपंक्तिप्रसाधनशोभितम् ॥ ६१ ॥ १ नासावयुक्तं AB. २ ध्वजारथं AB. ३ थणणविरुद्ध AB. ४ ससमपाअएहिं AB. ५ रविलग्नानां च येषां AB. ६ सुमति B; समनि A. ७ पट्टौप्रसा. AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy