SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ रूपकालारप्रकरणम् भान्त्यगुळीसुरमहीरुहदिव्यवल्ल्यो / ___ रामप्रकोष्टयुगकङ्कणरत्नभासः॥ अत्र रामरत्नकरणभासां पल्लवत्वादिरूपणं प्रति भुजादीनां विटपत्वादि. रूपणं कारणम् / (viii) अश्लिष्टमा लापरम्परितं वैधम्र्येणापि संभवति / यथा - तमस्तरुकुठाराग्रं दीपनीहारभास्करः / रामचन्द्रकिरीटस्य राजते रुचिमण्डलम् // एवम् अष्टविधरूपकस्य वाक्यसमासगतत्वेन षोडशभेदास्संभवन्ति / // अथ परिणामालङ्कारः // प्रकृतानुपयोग्यारोपरूपरूपकनिरूपकनिरूपणानन्तरं प्रकृतोपयोग्यारोप. रूपपरिणामालंकारनिरूपणमुचितमित्यवान्तरसंगतिः / ननु-' आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामलककारः' इत्यलबारसर्वस्वकारः / 'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणरूपतया। परिणमति यत्र विषयः प्रस्तुतकार्योप. योगाये 'ति विद्याधरः। 'विषयो विषयत्वेन यस्मिन्परिणमेद्यदि / प्रकृतार्थोपयोगाय परिणामस्स च द्विधेति साहित्यचिन्तामणिकारः / 'आरोप्यमाणम् आरोप्यविषयात्मतया स्थितम् / प्रकृतस्योपयोगित्वे परिणाम उदाहृत' इति विद्यानाथः / परिणामे "विषयविषयिणोरुभयोरपि स्वरूपानपहारात् विषयस्य विषयरूपेणावस्थानं कथितं न विरुद्धमिति ध्येयम् / तत्र अलकारसर्वस्वकारलक्षणं न युज्यते / समासोक्तावतिव्याप्तेः / तत्राप्यारोप्यमाणस्य प्रकृतोप. योगित्वात् / ननु वाच्यत्वे सति आरोप्यमाणस्य प्रकृतोपयोगित्वं विवक्षितमिति नोक्तदोष इति चेत् तर्हि - 'वसन्ततिलकावृत्तम् / 'विषयविषयिणोरपि-आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy