SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ xxix . हस्तप्रतीनां साहाय्यात् अस्य संपादनकार्यकरणवेलायां मनस्येकमालोचनं समुद्भूतम् । अत्र अलङ्कारप्रकरणभागः बहुविस्तृततयाऽस्ति । अतः भागम् इममेव प्रत्येक कृत्वा भागद्वये संपादनं करणीयमिति । तदा समालोचनेयं कार्यपथे सरिता। तदनुरोधात् ग्रन्थोऽयं प्रथमद्वितीयभागयोः द्विधा विभक्तः । प्रथमभागे उपोद्धात-नायक-काव्य-ध्वनि-रस-दोष-गुणादीनां विचाराः, द्वितीयभागे शब्दालङ्काराण'मर्थालंकरणाच विषयाश्च संयोजिताः। ग्रन्थकारः ग्रन्थमध्ये अनेकेषामालंकारिकाणाम् नामान्युत्य तेषा लक्षणादिकमनुवदति । तत्र बहूनामालंकारिकाणामनेके ग्रन्थाः मुद्रितास्सन्ति । केचन ग्रन्थाः अमुद्रिताः हस्तप्रतिरूपेण विद्यन्ते। संपादनसमये संशयगमनवेलायां मुद्रितग्रन्थानां साहाय्य स्वीकृत्य पाठान्तरादिकमपि ऊरीकृतम् । संपादनकार्य उपयुक्त'नां हस्तप्रतीनां मुद्रितपुस्तकानाच संकेतः मयैव अङ्गीकृतः । शब्दालंकारप्रकरणे दोषपूर्णाः केचन भागाः यथामति शोधिताः । केचन भागाः गत्यन्तराभावात् यथाप्रति प्रदत्ताः । ___ ग्रन्थे उपरि भागे मूल प्रदत्तमस्ति । अध भागे पाठान्तराणि टिप्पण्यादीनि च प्रदत्तानि । मध्ये मध्ये स्वीयां बुद्धिमनुसृत्य टिप्पणीः मयैव भारचिताः। पाठान्तरादीनां टिप्पण्यादीनां सर्वेषां संख्या कमशः दत्ताऽस्ति । तथा इतरेषामालंकारिकाणां (प्रन्थकारेण अनुद्धृतानाम् ) लक्षणादीनि एकत्रैव सभ्यन्तामिति समालोच्य तानि यथावकाशमधोभागे प्रदत्तानि । अयं चापरो विशेषः। नाट्यप्रकरणे दशरूपकाणां निरूपणानन्तरम् उदाहरणत्वेन अद्भुतरामः इति नाटकमेकं सोदाहरणं रचितवानस्ति ग्रन्थकृदयम् । तदपि नाटकं प्रत्येकं पुस्तकमेव भवतु इति निश्चित्य नाटयप्रकरणात् विभक्तं कृतम् एतदपि प्रत्येक पुस्तकरूपेण आगमिष्यति ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy