SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ४.२६] चतुर्थोन्मेषः २६१ कर्षाः हर्षातिरेकमनेकशोऽप्यास्वाद्यमानाः समुत्पादयन्ति सहृदयानाम् । एवमन्यदपि निदर्शनान्तरमुद्भावनीयम् । कथोन्मेषे समानेऽपि वपुषीव निर्गुणैः । प्रबन्धाः प्राणिन इव प्रभासन्ते पृथक् पृथक् ॥ ५६ ।। इत्यन्तरश्लोकः । भूयोऽप्यस्या भेदमुपपादयतिमहाकविप्रबन्धानां सर्वेषामस्ति वक्रता । नूतनोपायनिष्पन्ननयवर्मोपदेशिनाम् ॥२६॥ "महाकविप्रबन्धनाम्" नवनिर्माणनिपुणनिरुपमकविप्रकाण्ड (वि रचितानां) “सर्वेषां" । (किंभूतानां) - "नूतनोपायनिष्पन्ननयवों पदेशिनां"_"नूतना:"-प्रत्यग्राः, “उपायाः"-सामादिप्रयोगप्रकाराः, तद्विदां गोचरा ये 'तनिष्पन्नं' सिद्ध यत् "नयवर्त्म" नीति (मार्गः) तदुपदिशन्ति शिक्षयन्ति ये (ते) तथोक्तास्तेषाम् । किमुक्तं भवति-सकलेष्वपि सत्कविप्रबन्धेषु अभिनवभङ्गीनिवेशपेशलिन्या नीत्याः फलमुपपद्यमानं प्रतिपाद्योपदेशद्वारेण किमपि चमत्करणमुपलभ्यत एव । यथा मुद्राराक्षसे-- तत्र हि प्रवरप्रज्ञाप्रभावप्रपञ्चितविचित्रनीतिव्यापाराः प्रग- . भन्त एव । यथा च तापसवत्सराजोद्देश एव व्याख्यातः । एवमन्यदप्युत्प्रेक्षणीयम् । वक्रतोल्लेखवैकल्य (मसत्काव्ये वि) लोक्यते । प्रबन्धेषु कवीन्द्राणां कीर्तिकन्देषु किं पुनः ॥ ५७॥ इत्यन्तरश्लोकः । समाप्तप्रायोऽयं ग्रन्थः ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy