SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ४.२०-२१] चतुर्थोन्मेष: सातिरेकरसोत्सेककर्म निर्माणकर्मणः । प्रत्यूहदूरीकरणात् कान्तिं पुष्णाति नायकः ।। ५३॥ इत्यन्तरश्लोकः । भूयोऽपि भेदान्तरमस्यां संभावयति 17 प्रधानवस्तुसंबन्धतिरोधानविधायिना । कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा ॥ २० ॥ तत्रैव तस्य निष्पत्तेर्निर्निबन्धरसोज्ज्वलाम् । प्रबन्धस्यानुबध्नाति नवां कामपि वक्रताम् ॥ २१ ॥ 11 "L “ प्रबन्धस्य ” – सर्गबन्धादेः, “ अनुबध्नाति " - द्रढयति । " नवाम् " - अपूर्वोल्लेखां, “कामपि " सहृदयानुभूयमानां न पुनरभिधा" वक्रतां गोचरचमत्कारां, - वक्रिमाणं । काऽसौ “ कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा " कार्यान्तरान्तरायेण " - अन्य - कार्यकृतेन आधिकारिककथाप्रत्यहेन "विच्छिन्नविरसा " विच्छिन्ना चासौ विरसा च सा विच्छिद्यमान (रस) त्वात् अनावर्जनसंज्ञेत्यर्थः । किंभूतेन " प्रधानवस्तुसंबन्ध[तिरोधान] विधायिना”आधिकारिक फलसिद्ध्युपायनिरोधिना । कुतः " तत्रैव तस्य निष्पत्तेः " " तत्रैव" कार्यान्तरानुष्ठाने " तस्या "धिकारिकस्य “निष्पत्तेः " संसिद्धेः । तत एव " निर्निबन्धरसोज्ज्वलाम्”निरन्तरायतरङ्गिताङ्गिरसप्राग्भारभ्राजिष्णुम् । - अयमस्य परमार्थः – या किलाधिकारिककथानिषेधिकार्यान्तरव्यवधानात् झगिति विघटमानाऽलब्धावकाशाऽपि विकाश्यमाना सा प्रस्तुतेतरव्यापारादेव प्रस्तुतवस्तुनिष्पन्नेन्दीवरसितरसनिर्भरा प्रबन्धस्य रामणीयकवक्रिमाणमादधाति । यथा शिशुपालवधे । स हि सर्गबन्धः । २५७. ܘ ܗ -
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy