SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ४.१२-१३] २४९ व्यापाद्यत इत्यस्य वक्ष्यमाणस्य प्रधानाभिधेयस्य निमित्तमादत्ते । अस्येति सहजसौहार्दनिबर्हण निहन्यमानस्य । " भवतो यथा " विततव्यतिकरोत्सेककारिणः स्वात्महत्येच्छा । अनेनैव विविधविकल्पनेन योऽयमर्थः समुद्दीप्यमानो नवताभाजनं विभूष्यमाणः सन् प्रकाशते । एवमन्यदपि तत एव विभाव्य व्याख्येयम् । चतुर्थोन्मेषः प्रधानफलसिद्धिश्चात्र “ व्यापत्ति ज्ञातमस्य स्वतनुमहमिमां निष्क्रयं कल्पयमि” इत्युन्मीलिता ततस्तदनन्तरप्रकरणे “ तस्येयं मम मृत्युलोकपदवी वध्य स्रगाबध्यताम् " इत्यादिना निष्पादिता । तामेव भङ्गयन्तरेण व्याचष्टे । सामाजिकजनाह्लादनिर्माणनिपुणैर्न टैः । तद्भुमिकां समास्थाय निर्वर्तितनटान्तरम् ॥ १२ ॥ क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम् । सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम् ।। १३॥ " सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम् " = सकलरूपकप्राणरूपं समुल्लासयति वक्रिमाणम् । "क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम् ” कस्मिश्चित कविकौशलोन्मेषशालिनि नाटके, न सर्वत्र । एकस्य मध्यवर्त्यङ्कान्तरगर्भीकृतं गर्भो वा नामेति यावत् । किंविशिष्टं " निर्वर्तितनटान्तरं " = विभावितान्यनर्तकं । नटैः कीदृग्भिः “सामाजिकजनाह्लादनिर्माणनिपुणैः ” – सहृदयपरिषत्परितोषपोषणनिष्णातैः । ( किं कृत्वा ) " तद्भूमिकां समास्थाय ” सामाजिकीभूय । " - ' इदमत्र तात्पर्यम् - कुत्रचिदेव निरङ्कुशकोशलाः कुशीलवाः स्वीयभूमिकापरिग्रहेण रङ्गमलंकुर्वाणा नर्तकान्तरप्रयुज्यमाने प्रकृतार्थंजीवित इव गर्भवर्तिन्यङ्कान्तरे तरङ्गितवक्रतामहिम्नि सामाजिकी भवन्तो विविधाभिर्भावनाभङ्गीभिः साक्षात्सामाजि -
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy