________________
१७
१.९]
प्रथमोन्मेषः भर्तुमित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशाद्धृदयनिहितादागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३२॥ अत्र प्रथममामन्त्रणपदार्थस्तदाश्वासकारिपरिस्पन्दनिबन्धनः भर्तुमित्रं मां विद्धीत्युपादेयतामा त्मनः प्रथयति । तच्च न सामान्यम्, प्रियमिति विश्रम्भपात्रताम् । इति तामाश्वास्योन्मुखीकृत्य च तत्संदेशात्त्वत्समीपमागमनमिति प्रकृत प्रस्तौति । हृदयनिहितादिति सुहत्त्वविहितं सावधानत्वं द्योत्यते । नन चान्यः कश्चिदेवविधव्यवहारविदग्धबुद्धिः कथं न नियुक्त इत्याह-ममैवात्र कौशलं किमपि विजृम्भते । अम्बुवाहमित्यात्मनस्तत्कारिताभिधानं द्योतयति । यः प्रोषितानां वृन्दानि त्वरयति, संजातत्वराणि करोति । कीदृशानाम्-श्राम्यतां त्वरायामसमर्थानामपि । वृन्दानीति बाहुल्यात्तत्कारिताभ्यासं कथयति । केन-मन्द्रस्निग्धैर्ध्वनिभिः, माधुर्यरमणीयैः शब्दैविदग्धदूतप्ररोचनावचनप्रायरित्यर्थः । क्व–पथि मार्गे। यदृच्छया यथाकथंचिदहमेतदाचरामीति किं पुनः प्रयत्नेन सुहृत्प्रेमनिमित्तं संरम्भबुद्धि न करोमीति । कीदृशानि वृन्दानि-अबलावेणिमोक्षोत्सुकानि । अबला-शब्देनात्र तत्प्रेयसीविरहवैधुर्यासहत्वं भण्यते, तद्वेणिमोक्षोत्सुकानीति तेषां तदनुरक्तचित्तवृत्तित्वम् । तदयमत्र वाक्यार्थः-विधिविहितविरहवैधुर्यस्य परस्परानुरक्तचित्तवृत्तेर्यस्य कस्यचित्कामिजनस्य समागमसौख्यसंपादनसौहार्दे सदैव गृहीतव्रतोऽस्मीति । अत्र यः पदार्थपरिस्पन्द: कविनोपनिबद्धः प्रबन्धस्य मेघदूतत्वे परमार्थतः स एव जीवितमिति सुतरां सहृदयाह्लादकारी । न पुनरेवंविधो यथा