________________
कारकविवरणम्
करणस्य, यथा तृणानि शय्येत्यादौ चीक्तत्वमिति सर्वत्र प्रथमैव । १ णिगन्तकर्मविषये विशेषमाह-अन्यदिति । वेति विकल्पे । कर्मजः प्रत्ययः, अन्यद् गौणं वक्तीत्यपि पक्षः । गौणमुख्यते च कर्मणो गौणमुख्यक्रियाऽपेक्षतया । तथा च गौणगत्यादिक्रियापेक्षकर्मत्ववतो ग्रामादेः कर्मणि प्रत्यये उक्तत्वात् ‘तै मैत्रं स ग्रामो गम्यः, ते मैंत्रं मास आस्यत' इत्युभयत्र प्रथमान्तता । ..
ननु मुख्यस्यैवोक्तता युक्ता, गौणमुख्यन्यायादिति चेत् , अत्रेदमवधेयम्-णिगन्तस्थले द्वयोः कर्मणो मौणमुख्यभावोऽनियतः, यतो यदाऽर्थस्य प्रातिपादकः शब्द इति शब्दस्य प्राधान्यमिति मतम् , तदा शब्देनाऽभिधया प्राधान्येन प्रतिपाद्यः प्रयोक्तृव्यापार एव प्रधानमितितज्जन्यफलाश्रयस्य प्रयोज्यस्य मुख्यत्वम् । यदा त्वर्थप्रत्यायनायं शब्दप्रयोग इत्यर्थस्यैव प्राधान्यमिति मतम् । तदा प्रयोज्यव्यापारस्यैव प्राधान्यं न तु प्रयोजकव्यापारस्य, तस्य प्रयोज्यव्यापारातिशयार्थत्वादिति प्रयोज्यव्यापारजन्यफलाश्रयस्यैव प्राधान्यम् ।
ननु युक्तिबलाघस्य प्राधान्यनिर्णनस्तस्यैव मुख्यत्वमेष्टव्यमिति चेन्न । उभय्या एव गते वैयाकरणपरम्पराप्राप्तत्वात्तथा वाक्ये प्रयोगाच्च स्वयुक्तिबलेन निर्णयस्याऽनुचितत्वात् । अन्यथैकतरस्याऽसा
न चैषा स्वमनीषिका, कारिकायां कर्मजः इति सामान्येनैवोकेरिति वाच्यम् । द्विकर्मकभिन्नस्थलेऽन्यस्य कर्मणोऽसम्भवाद् दिकर्मके च दुहादानुकाऽनुक्तवव्यवस्थायाः प्रागेव कृतत्वात्पारिशेष्यात्प्रकरणाच णिगन्तकर्मविषय एवैतद्विशेषप्रदर्शनमित्यवधेयम् ।