________________
कारकविवरणम्
इत्युक्तार्थानामप्रयोग इति न्यायान्न कर्मार्थकाद् द्वितीयाविधानम् । किन्तु नामार्थे प्रथमैव । आरूढेति । आरूढो वानरो यमिति बहुश्रीहिणैव कर्मार्थस्योक्तत्वान्न वृक्षनाम्नो द्वितीया। पट इति । शतेन क्रीत इत्यर्थे विहिताभ्यां तद्धितसंज्ञकाभ्यां येकाभ्यामेव कर्मोक्तमिति पटपदान द्वितीया ।
कट इति । क्तप्रत्ययेन कृत्संज्ञकेन कर्मोक्तमिति कटशब्दान्न द्वितीया ।
कृतं पश्येत्यादौ तु क्तप्रत्ययेन करोतिक्रियाया एव कर्मो. क्तम् । तादृशक्तप्रत्ययोक्तकर्मसहित द्रव्यञ्च दर्शनक्रियाकमाऽनुक्तमेवेति तदर्थात्कृतशब्दाद्दर्शनक्रियाकर्मणि द्वितीया । -
न चैवं घटं कृतं पश्येत्यादौ घटपदान्न द्वितीया सम्भवति, क्तप्रत्ययेन घटकर्मण उक्तत्वादिति वाच्यम् । पश्यन् हि घटमपि पश्यति कृतमपीति यद्यक्रियया व्याप्तुमिष्टं तत्सर्वं कर्मेति सर्वेषां पृथक्पृथक्कर्मत्वे प्रत्येकं द्वितीया, क्तप्रत्ययेन घटगतस्योत्पादनाश्रयत्वरूपस्यैव कर्मण उक्तत्वाद् दर्शनाश्रयत्वरूपस्य कर्मणोऽनुक्तत्वात् ।
नन्वेवं घटे उभयी कर्मशक्तिरिति तत्र द्वितीयैव न प्रथमेत्यत्र विनिगमनाविरह इति चेन्न । ग्रामो गन्तुमिष्यत इत्यादौ प्रधानक्रियाविषयायाः कर्मशक्तेरुक्तत्वे गुणीभूतक्रियाविषयाया अपि तस्या उक्तत्व
१ ननु कर्मण उक्तत्वे द्वितीयाया अभावे ‘कृतं पश्ये' त्यादौ सा न युज्यते, क्तप्रत्ययेन कर्मण उक्तत्वादित्याशक्याऽऽह-कृतं पश्येत्यादौत्विति ।