SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भद्रारोदयाख्यव्याख्यासहितम् - ज्योतिषे इत्यादि । जन्म जन्मकालं व्याप्य, जन्मन आरभ्यैव ज्योतिषे ज्योतिःशास्त्रे अधीतिनः कृताऽभ्यासाः, ज्योतिःशास्त्रनिपुणा इति यावत् । द्विषि शत्रौ विषये असाधु पराजयफलत्वा. दशुभं नृपे यात्रोद्यते मूलराजनृपविषये साधु विजयफलत्वाच्छुभं लग यात्रामुहूर्त क्षणात्सद्यः, साधयितुं निश्चेतुम् , यात्रालमत्वेन निश्चितो मुहूर्तः समजनि न वेति ज्ञातुमित्यर्थः । छायायां छायानिमित्तं शबकुमृणु सप्ताङ्गुल्यादिमानं काष्ठकीलकमादधुः समभुवि रोपयामासुः । कालज्ञानार्थ ज्योतिर्विदः शकुं भूमौ स्थापयन्ति, तच्छायामानेन च कालं निश्चिन्वन्ति । तदेषा प्रक्रिया निरभ्र पांशुवृष्ट्यादिरहिते दिने सम्भवति । अन्यथा च्छायायाः सम्यगज्ञानादिति दिनस्य यात्रायोग्यता सूचिता ॥ ९४ ॥ स्वं प्रत्यसाधून साधूंश्वाऽगणयन् वेत्रिणां पतिः । साधून स्वामिनि ' तत्कार्ये २ निपुणांचाऽग्रतो व्यधात् ॥९५ स्वमित्यादि । वेत्रिणां वेत्रधरणां प्रतिहारिणां पतिरध्यक्षः, प्रतिहारिमुख्य इत्यर्थः । स्वं निजं वेत्रिपतिं प्रति असाधून अभतान् साधून भक्तांश्चाऽगणयन्नविचारयन्नेव स्वामिनि नृपे मूलराजे साधून भक्तान् तत्कार्ये तस्य नृपस्य कार्य सेवादिविधौ निपुणान् कुशलांश्च अग्रतो नृपस्य पुरस्ताद् व्यधात् स्थापितवान् । प्रायो हि राज्ञो भृत्याः स्वसौविध्यार्थ स्वभक्तानेव राज्ञां पुरतः स्थापयन्ति । १-२ अर्चायां साधुनिपुणशब्दयोगे सप्तमी ॥ ९५ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy