SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कारकड्याश्रयकाव्यम् कामुकस्य श्रियां १ भूपा राज्ञ आज्ञा २ प्रपादुकाः । सुराष्ट्रां ३ गमिनस्तस्थुस्तत्र कोटिं ४ नु दायिनः ॥ ८९ ॥ कामुकस्येत्यादि । श्रियां शत्रुलक्ष्मीणां कामुकस्याऽभिलाषुकस्य, अत एव, सुराष्ट्रां तदाख्यदेशं गमिनो गन्तुमिच्छतः, ग्राहरिपुनिग्रहार्थमिति शेषः । राज्ञो मूलराजस्य आज्ञां निदेशं प्रपादुकाः प्रतिपत्तारः, अधीनत्वादिति भावः । भूपा नृपा स्तत्र सिंहासनसमीपे कोटि कोटिसङ्ख्यां मुद्रां दायिनो धारयन्तोऽधमणी नु इव तस्थुः। द्रव्येच्छोरुत्तमर्णस्य समीपेऽधमणीस्तदाज्ञां वहन्तस्तिठन्त्येव ॥ ८९ ॥ जगदा १ गामिनोऽरिष्टस्या २ ऽवश्यंछेदिनो द्विजाः । एयुस्तत्रा ३ ऽऽशितारो द्विर्मासे • मासो ५ द्विरम्बुपाः ॥९० जगदित्यादि । मासे द्विराशितारो द्वौ वारौ भोक्तारः, तथा मासो मासस्य द्विरम्बुपा द्वौ वारौ जलपायिनः, अत्युग्रतपःपरायणा इत्यर्थः । अत एव तादृशतपःप्रभावादेव, जगत् प्रजा आगामिन एष्यतोऽपि अरिष्टस्याऽमङ्गलस्याऽवश्यंछेदिनो ध्रुवं विनाशयितारो १ कमेरुकान्तस्य न षष्ठीनिषेधः । २ उकान्तयोगे न षष्ठीति द्वितीया । ३-४ एष्यदर्थे ऋणे चेनन्तयोगे न षष्ठीति द्वितीया || ८९ १ एण्यदर्थे इनन्तयोगे षष्ठीनिषेधाद् द्वितीया । २ आवश्यकार्थे णिनि पछीनिषेधः । ३ सामीप्ये सप्तमी । ४-५ सुजथै योगे काले वा ससमी पक्षे षष्ठी ॥ १० ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy