SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कारकयाश्रयकाव्यम् तादृश इत्यर्थः । कैटभस्य तदाख्याऽसुरस्य मधुं तदाख्यमसुरं च द्विषन् नाशकः, मधुकैटभहन्ता विष्णुरित्यर्थः । शरदि तां निद्रामत्यजत् , प्रबुद्धवानित्यर्थः । शरदि हि देवोत्थानकादशी समुपा. स्यते जनैः, तस्यां च विष्णुं मन्त्रविधिना प्रबोधयन्ति । तदेतन्महन्माहास्यं शरदः, यदन्येनाऽसाध्यं साधयतीति भावः ॥ ७९ ॥ पवने खं १ तुषाराणां २ तरलत्वस्य ३ वीरुधाम् ४ । दिशां ५ नेतरि किञ्जल्का ६ श्रान्तानां ° शायिकाऽभवत् ॥ ८० ॥ पवन इत्यादि । पवने वायौ तुषाराणां जलकणानां खमाकाशं नेतरि प्रापयितरि सति, जलकणानादायाऽऽकाशं गच्छति सतीत्यर्थः । जलकणसम्पाच्छीतले सतीति यावत् । तथा तरलत्वस्य चञ्चलताया वीरुधां लतानां नेतरि सति, स्वगतिवेगेन लता आन्दोलयति सतीत्यर्थः । मन्दं वाति सतीति यावत् । तथा, किञ्जल्कान् लक्षणया कमलकेशरपरागान् दिशां दिक्षु नेतरि सति, परागान् सुगन्धीनादाय वहति सतीत्यर्थः । मन्दे शीतले सुरभिणि च खेदापहरे समीरे सञ्चरति सतीति मिलिततात्पर्यम् । श्रान्तानां मार्गगमनादिखिन्नानां शायिका शयनमभवत् । अपगतखेदो हि शेते । १-२-३-४-५-६ द्वयोः कर्मणोः कृद्योगे एकत्र वा षष्ठीति यथायथं षष्ठी द्वितीया च । ७ कृयोगे कर्तरि षष्ठी ॥ ८० ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy