SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०६ कारकट्याश्रयकाव्यम् - वीचिहादैः वीचीनां तरङ्गाणां हादै र्ध्वनिभिः सरःपयोलक्षणैः कृत्वा सरसा पयः सरसां पय एव अजानन् ज्ञातवन्तः । अत्र वीचिह्नादोऽपि ज्योत्स्नाभ्रमनिराकरणहेतुरिति बोध्यम् ॥ ७६ ॥ शैलस्यो' पर्यधोऽवस्तात्परस्तादुत्पतिष्णुभिः । उपरिष्टाच्छरल्लक्ष्म्या २ नीलच्छनायित शुकैः ॥ ७७ ॥ शैलस्येत्यादि । शैलस्य पर्वतस्य उपरि ऊर्ध्वमध ऊर्ध्वदेशाऽपेक्षयाऽधोभागे अवस्तात्पश्चिमभागे परस्तात्पुरोभागे उपलक्षणत्वात्पार्श्वयोश्च उत्पतिष्णुभिरुड्डीयमानैः शुकैः कीरैः शरल्लक्ष्म्याः शरदो लक्ष्म्याः शोभायाः, राजलक्ष्म्यां इवेतिच्छत्रपदसान्निध्याद् ध्वन्यते । उपरिष्टाद् उपरिभागे छत्रायितम् छत्रवदाचरितम् । शुकैश्छत्रवदेव बाहुल्यादावरणायितत्वादिति बोध्यम् । छत्रं राजलक्ष्मीचिह्नमिति शरलक्ष्म्यास्तादृशाः शुकाश्छत्रम् । अत्रेदमवधेयम्राजलक्ष्मीचिंह श्वेतच्छत्रं नतु नीलमिति वर्णनमिदं विरुद्धमिति । शरदि शुका बाहुल्येन भवन्ति पर्वतादिषु च निवसन्ति ॥ ७७ ॥ ध्रुवस्या ' ऽभादक्षिणंतो वातापेः २ प्सातुरुत्तरात् ३ । पितृणां दुर्गते ४ स्त्यागेऽध्वा द्यो ५ यानस्य ६ साधकः ॥७८ ध्रुवस्येत्यादि । पितृणां प्रेतानां पूर्वजानां दुर्गतेर्दन्दशूकत्वा१-२ रिरिष्टादादिशब्दयोगे षष्ठी ॥ ७७ ॥ १-३ अतसातोोंगे षष्ठी । २-१-५-६ कृद्योगे कर्मणि षष्ठी ॥७॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy