________________
६८
श्रीविचारसप्ततिका वृत्तिसमेता ५६३ अभिहतपदादिभिः दशभिर्गुणिताः पञ्च सहस्राः षट् शतानि त्रिंशदधिकानि जायन्ते ५,६३० । तेऽपि रागद्वेषाभ्यां द्विगुणिता एकादश सहस्राः षष्ट्यधिके च द्वे शते स्युः ११,२६० ॥१४॥ ते च मनोवच:कायैर्गुणितास्त्रयस्त्रिंशत्सहस्राण्यशीत्यधिकानि सप्त शतानि भवन्ति ३३,७८० । तेऽपि च करणकारणानुमतिलक्षणत्रिकैर्गुणिता एकं लक्षं एकः सहस्रश्चत्वारिंशदधिकानि त्रीणि शतानि च १,०१,३४० ॥१५॥ ते च कालत्रिकेण "अतीतं निन्दामि, अनागतं प्रत्याख्यामि, प्रत्युत्पन्नं संवरामि" इति वचनादतीतानागतवर्तमानलक्षणेन गुणिताः तिस्रो लक्षाश्चत्वारः सहस्रा विंशत्यधिकाः ३,०४,०२० । ते चार्हत्सिद्धसाधुसम्यग्दृष्टीन्द्रादिदेवगुर्वात्मसाक्षिकैः षड्भिर्गुणिता अष्टादश लक्षाश्चतुर्विंशतिः सहस्रा विंशत्यधिकशतं १८,२४,१२० इतीर्यापथिकीमिथ्यादुष्कृतप्रमाणं श्रुते भणितम् । क्वचिदाभोगानाभोगभेदद्वयगुणिताः षट्त्रिशल्लक्षा अष्टचत्वारिंशत्सहस्राश्चत्वारिंशदधिके द्वे शते ३६,४८,२४० ॥१६-१७॥ इति मिथ्यादुष्कृतद्वारं द्वितीयम् ॥
अथ कोटिशिलाख्यं तृतीयं द्वारमाहजोयणपिहुलायामा दसन्नपव्वयसमीव कोडिसिला । जिणछक्कतित्थसिद्धा तत्थ अणेगा उ मुणिकोडी ॥१८॥
उत्सेधाङ्गलनिष्पन्नैकयोजनपृथुलायामा एकयोजनोच्चा भरतक्षेत्रमध्ये मध्यखण्डे मगधदेशे दशार्णपर्वतसमीपे वृत्ता कोटिशिला नाम शिला आस्ते । तत्र तस्यां कोटिशिलायां श्रीशान्त्यादिजिनषट्कतीर्थसिद्धा अनेका मुनिकोटयो ज्ञेयाः ॥१८॥
कथं सिद्धास्तदाहपढमं संतिगणहरो चक्काउहणेगसाहुपरियरिओ। बत्तीसजुगेहिँ तओ सिद्धा संखिज्जमुणिकोडी ॥१९॥ संखिज्जा मुणिकोडी अडवीसजुगेहिँ कुंथुनाहस्स । अरजिण चउवीसजुगा बारसकोडीओ सिद्धाओ ॥२०॥