SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीविचारसप्ततिका वृत्तिसमेता पर्वतस्थितचतुर्विंशतितीर्थकरमूर्त्यादयः । तथा “चेइअ" इति चैत्येषु श्रावककारितजिनायतनेषु । तथा गृहचैत्येषु देवतावसथेषु या या जिनप्रतिमाः सन्ति तासां प्रमाणं उत्कृष्टतः पञ्च धनुःशतानि, जघन्यतो यावदङ्गुष्ठपर्वसमाः ॥६॥ ताः कियत्य ? इत्याहबहुकोडिकोडिलक्खा ताओ चिय भावओ अहं सव्वा । समगं चिय पणमामि न्हवेमि पूएमि झाएमि ॥७॥ अशाश्वतीः प्रतिमा बहुकोटिकोटिलक्षाः शाश्वतीश्च ताः सर्वा अपि समकं समकालमेव शिरसा प्रणमामि, सुगन्धोदकैः स्नपयामि, चन्दनपुष्पादिभिः पूजयामि, मनसा ध्यायामीति चिन्त्यम् ॥७॥ व्याख्यातं प्रथमं प्रतिमाद्वारम् ॥ अधुना ईर्यापथिकीमिथ्यादुष्कृतद्वारं द्वितीयमाहचउदस पय अडचत्ता तिगहिअतिसई सयं च अडनउअं। चउगइ दसगुण मिच्छा पण सहसा छ सय तीसा य ॥८॥ चतुर्दश पदानि नरकेषु, अष्टचत्वारिंशच्च तिर्यक्षु, त्रिकाधिका त्रिशती मनुष्येषु, अष्टनवत्यधिकं शतं च देवेषु, एवं चतुर्गतिसम्भवजीवभेदान् त्रिषष्ट्यधिकपञ्चशतसङ्ख्याकान् ५६३ सम्मील्येर्यापथिकीदण्डकसप्तमसम्पद्गताभिहतादिभिर्दशपदैर्गुणितानि मिथ्यादुष्कृतानि पञ्च सहस्राणि षट् शतानि त्रिंशदधिकानि जातानीति ५,६३० सङ्केपेणोक्तानि ॥८॥ तानि कथं भवन्तीति विस्तरेणाहनेइआ सत्तविहा पज्जअपज्जत्तणेण चउदसहा । अडचत्ताईसंखा तिरिनरदेवाण पुण एवं ॥९॥ नैरयिकाः सप्तविधाः रत्नप्रभादिसप्तनरकभेदेन । ते च पर्याप्तापर्याप्तभेदाभ्यां चतुर्दशधा । तथा 'अडचत्त' इति अष्टचत्वारिंशदादयः सङ्ख्याः पुनः
SR No.023431
Book TitleVichar Saptatika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages110
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy