SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९२ श्रीविचारसप्ततिका वृत्तिसमेता समयस्थितिकानि । स च समयो भवपरावृत्त्या लभ्यते । यदेतेषामेकसमयं श्रेण्यारोहावरोहयोः प्रतिपद्यानन्तरं मरणसम्भवात् । उत्कृष्टतश्चैतान्यन्तर्मुहूर्तप्रमाणानि ॥६॥ अंतमुहुत्तं एगं अलहुक्कोसं अजोगिखीणेसु । देसूणपुव्वकोडी गुरु लहु अंतमुहु जोगी ॥७७॥ जघन्योत्कृष्टमन्तर्मुहूर्तमेकमयोगि १४ क्षीणमोहयोः १२ स्थितिः । तथा सयोगिकेवलिगुणस्थानं १३ उत्कृष्टतो नवभिर्वपैयूंना पूर्वकोटिः जघन्यतश्चान्तर्मुहूर्तम् ॥७७॥ अथ द्वितीयं प्रतिद्वारमाहमीसे खीणसजोगी न मरंत मरतेगारसयगुणेसु । तह मिच्छसाणअविरइ सहपरभवगा न सेसट्ठा ॥७८॥ मिश्रे तृतीये गुणस्थाने, द्वादशे क्षीणमोहे, त्रयोदशे सयोगिनि च वर्तमानो जीवो न म्रियते । अपरेष्वेकादशसु मिथ्यात्व १ सास्वादना २ ऽविरति ३ देशविरति ४ प्रमत्ता ५ ऽप्रमत्त ६ निवृत्त्य ७ ऽनिवृत्ति ८ सूक्ष्मसम्परायो ९ पशान्तमोहा १० योगिकेवलिगुणस्थानकेषु ११ वर्तमानो जीवो म्रियते । अथ गाथान्त्यार्धेन तृतीयं द्वारमाह-"तह" इति तथा मिथ्यात्वसास्वादनाविरतिगुणस्थानत्रयेण सह जीवाः परभवगामिनो भवन्ति जीवेन सहितानि परभवं गच्छन्तीत्यर्थः । उक्तव्यतिरेकशेषगुणस्थानस्था जीवा न परभवगामिनः मिश्रदेशविरतिप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोग्ययोगिगुणस्थानकानि लात्वा परभवं न व्रजन्तीत्यर्थः ॥७८॥ अथ चतुर्थमल्पबहुत्वाख्यं द्वारमाहउवसंतिजिणा थोवा संखिज्जगुणा उ खीणमोहिजिणा । सुहुमनिअट्टिअनिअट्टि तिन्निवि तुला विसेसहिआ ॥७९॥ गुणस्थानस्थाने तद्वर्तिन एव ग्राह्याः, आधाराधेयोपचारात् । सर्वस्तोका
SR No.023431
Book TitleVichar Saptatika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages110
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy