________________
अहं प्रणिदध्महे ॥१॥ शब्दानामुत्पत्तिर्ज्ञानं च स्याद्वादाद भवति ॥२॥
॥ १-अथ संज्ञाप्रकरणम् ॥ 'अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ' इति १४ चतुर्दश स्वराः ॥३॥
एकमाने ह्रस्वः, द्विमात्रो दीर्घः, त्रिमात्रः प्लुतः; यथा-अ आ आ३ इति ।
अक्षिनिमीलने उन्मीलने वा यावान काल: स मात्रा ॥४॥
अआरहिता द्वादश १२ स्वरा नामिनः ॥५॥
लकारपर्यन्ता दश १० स्वराः समानाः ॥६॥ .. ए ऐ ओ औ' इति चत्वारि ४ सन्ध्यक्षराणि ॥७॥
उपरि बिन्दुः-अनुस्वारः, पावस्थबिन्दुयुगलविसर्गः, यथा-अं अः ॥८॥