________________
( १३१ )
निद्रा तन्द्रा- दयि-पति- गृहि-स्पृहे : - आलुः, 'सत्रि- चक्रिदधि जज्ञि - नेमि' इति ङयन्तनिपातनम्, शु-कम-गमहन-भू-स्थः, लष-पत-पदश्च- उकण्, भूषार्थादेः - अनः, जागुः - ऊकण्, शमष्टकात्- 'धिनण्-इन्' स्युः ॥१४॥ नन्ता जिनम्, भ्राजिष्णुः, भूष्णुः, स्थास्नुः, त्रस्नुः, लिप्सुः, विशरारुः, दारुः, शयालुः, अभिलाषुकः, भूषणः, जागरूकः, शमी; एवम् सृ-धस् - अदो- 'मरक्मर' 'भञ्जि - भासि - मिदो 'घुर:-उर', वेत्ति-च्छिदमिदो 'घुरक्-धुर', स्म्यादेः- रः । सृमरः, भङ्गुरः, विदुरः, स्मेरम् ॥ १५॥ इति कृदन्तप्रकरणम् ॥ ३५ ॥ ३६- अथोणादिः
ओ नेमिसूरिराजाय, गुरवे शीलसद्मने । सर्वतन्त्रस्वतन्त्राय, तस्मै नित्यं नमो नमः ॥ १ ॥ " अव रक्षणादो” अवतीति-ओम्, मप्रत्यय ऊटु च । नयतमप्रत्यये - नेमिः, धर्मचक्रस्य नेमिवत् नेमिः । सुदति संशयमिति सूरिः, रिक् प्रत्ययः । राजत इति-राजा, अन् । गृणाति सद्धर्ममिति : - गुरुः, कित् उप्रत्ययः । शेते सुखमनेनेतिः -शीलम्, लो
,