________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
निष्पन्नानेकभेदभिन्नास्तैः, सुन्दरफलैः पवित्रसुगन्धिमनोहरातिवर्णाढ्यनारङ्गाम्रबीजपूरकादिभिः, पूजा सपर्या, घृतं सर्पिः, उपलक्षणं चैतत् - समस्तनैवेद्यपक्वान्नादेः । सलिलं जलम्, ताभ्याम्, अष्टविधाऽष्टभेदा । उपलक्षणं चैतत्-काञ्चनरत्नवप्रादेः । तस्य मिश्रामिश्रादिभेदभिन्नजिनभवनमध्यगतभावार्हद्गुणगणाध्यारोपणसहार्हबिम्बस्य कर्त्तव्या कार्या भवतीति गाथार्थः ।। २४ ।।
३६
चक्रे० : इह च केचित्कस्याश्चित्प्रतिमायाः पूजामाहुरिति तन्मतान्याहुः देव० : इह च केचित्कस्याश्चित्प्रतिमायाः पूजनमाहुरिति तन्मतान्याह
—
गुरुकारिया केई अन्ने सयकारियाए तं बिंति । विहिकारियाए अन्ने पडिमाए पूयणविहाणं ।। २५ ।।
चक्रे० : गुरवो मातापितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूजाविधानं ब्रुवन्ति । परं मतान्येवैतानि कार्यपक्षस्त्वर्हत्प्रतिमां दृष्ट्वा पूजयेदन्यथाऽवज्ञा स्यात् ।। २५ ।।
देव० : गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारिताया विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, सर्वत्र तीर्थकृदाकारोपलम्भेन तद्बुद्धेरुपजायमानत्वाद्, अन्यथा हि स्वाग्रहवशादर्हद्बिम्बेष्वप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलाद्दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिरागमप्रामाण्यात् तथाहि
इति गाथार्थः ।। २५ ।।
-
सीलेहमंखफलए इयरे चोइंति तं नु माईसु ।
]
अभिजोइंति सवित्तिसु अणित्थकेडंतदीसंता ।। [ निस्सकडमनिस्सकडे वा वि चेईए सव्वहिं थुई तिन्नि ।
वेलं व चेइयाणि वि णाउं एक्केक्किया वा वि ।। [ चैत्य. म. भा. १६४]