________________
३३८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाहुः - देव० : इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाह -
एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्म।
मोक्खतरुबीयभूयं संपइराया व धारेज्जा।।२४९।। चक्रे०: तत्रैकविधं तत्त्वरुचिरूपम्, द्विविधं नैसर्गिकं जातिस्मरणादिप्रभवम्, अधिगमजं तु गुर्वाद्युपदेशात् तत्त्वाधिगमोद्भवम्, त्रिविधं क्षायिकं क्षायोपशमिकमौपशमिकं च । तत्र क्षायिकमनन्तानुबन्धि४मिथ्यात्व५मिश्र६पौद्गलिकसम्यक्त्व७क्षयोत्थमत्यन्तविशुद्धतत्त्वरूचिपरिणामरूपम् । तथा क्षायोपशमिकम्, उदीर्णस्य मिथ्यात्वस्य क्षयेणानुदीर्णस्य चोपशमन सम्यक्त्वरूपताऽऽपत्तिलक्षणेन विष्कम्भितविपाकोदयस्वरूपेण च यनिर्वृत्तं तत् । तच्च प्रदेशतो मिथ्यात्वं विपाकतस्तु सम्यक्त्वपुञ्ज वेदयमानस्य भवति, यदुक्तम् -
मिच्छत्तं जमुइन्नं तं खीणं अणुइयं तु उवसंतं ।
मीसीभावपरिणयं वेइज्जंतं खओवसमं ।। [विशेषा.भा. ५३२] तथोदीर्णस्य मिथ्यात्वस्य क्षये सति, अनुदीर्णस्य य उपशमो विपाकप्रदेशवेदनरूपस्य द्विविधस्याऽप्युदयस्य विष्कम्भणं तेन निवृत्तमौपशमिकम्, प्राग्वर्णितविधिना प्राप्तम् । यदि वा
उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।
जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ।। [विशेषा. भा. ५२९] कारक-रोचक-दीपकभेदाद् वा त्रिविधम् । कारकं साधूनामिव, रोचकं श्रेणिकादेरिव, दीपकमङ्गारमर्दकादेरिव। वेदकस्य पृथग्विवक्षया चतुर्द्धा, तञ्च पौद्गलिकसम्यक्त्वचरमपुद्गलवेदनकाले स्यात् । ईषत् तत्त्वश्रद्धानेन सास्वादनस्याऽपि सम्यक्त्वविवक्षया पञ्चविधम्। एषामेकैकस्य निसर्गाऽधिगमभेदविवक्षया दशविधं निसर्गरुच्यादिभेदतो वा, तथा च -
निस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव ।
अभिगम वित्थाररुई किरिया संखेव धम्मरुई ।। [उत्तरा. २८-१६] __ १-'निस्सग्गेण' गुरूपदेशं विना जिनोक्ततत्त्वेषु श्रद्धा यस्य सः निसर्गरुचिः। २-गुरूपदेशात्तु श्रद्धा यस्य स उपदेशरुचिः। ३-यज्जिनराज्ञप्तं तत् तथैवेति मन्वानाज्ञारुचिः । ४-सूत्रे - १. धारिज्जा T.C