________________
२४८
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
दोषानवाप्नुते, कथम् ? भगवत्प्रतिक्रुष्टवन्दन आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ।।११०८ ।।
* संबोधसप्ततिकायाम्-१० * अथ पार्श्वस्थादीनां वन्दनफलमाह -
पासत्थाई वंदमाणस्स नैव कित्ति न निज्जरा होइ ।
जायइ कायकिलेसो बंधो कम्मस्स आणाए ।। निर्दिष्टलक्षणान् पार्श्वस्थादीन् वन्द्यमानस्य जनस्य कीर्तिन भवति, निर्जरा कर्मक्षयमपि न भवति, पुनः कायक्लेशः कायस्य शरीरस्य क्लेश इतस्ततश्चलनात्मको जायत उत्पद्यते, कर्मबन्धोऽप्यष्टानां कर्मणामपि बन्धो भवति, आज्ञाया जिनाज्ञाया भङ्गोऽपि भवतीति शेषः, अतो न वन्दनार्हाः पार्श्वस्थादय इति भावः ।।१०।।
चक्रे० : एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, सम्प्रत्येषामेव गुणाधिकान् वन्दयतामपायान् दर्शयन्ति -
देव० : एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं तेषामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् दर्शयति -
जे बंभचेरस्स वयस्स भट्ठा उटुंति पाए गुणसुट्ठियाणं ।
जम्मंतरे दुल्लहबोहिया ते कुंटत्तमंटत्तणयं लहंति।।१९१।। चक्रे० : स्पष्टा, नवरं कुण्टः पाणिविकलः, मण्टस्तु विसंस्थुलोरूजङ्घः, तस्मादवन्द्याः पार्श्वस्थाद्या इति स्थितम्।।१९१ ।।
देव० : षष्ठ्याः पञ्चम्यर्थत्वाद् ये ब्रह्मचर्यान्मैथुनव्रताद्, व्रतात् सामान्येन प्राणातिपात विरमणादेर्धष्टा: संयमबाह्या इत्यर्थः, व्रतान्तर्गतत्वेऽपि ब्रह्मव्रतस्य पृथगुपादानं तभ्रंशस्यातिदौष्ट्यख्यापनार्थमत एवात्रापवादोऽपि नास्ति, तथा चात्र कल्पभाष्यम् -
कामं सव्वपएसु वि ओसग्गववायधम्मया जुत्ता ।
मुत्तुं मेहुणभावं न विणा तं रागदोसेण ।। [ ] १. लाहेवि कुटत्तणयं लहंति M२. ब्रह्मचर्यद् व्रताद् भ्रष्टाः, शेषव्रतोपलक्षणमिदमस्यैव च भणनमेतभ्रंशस्य T,B.C ३. उसग्गववायधम्मया जुत्ता । मोत्तुं मेहुणभावं न विण तं रागदोसेणं T,C