________________
१२२
चक्रे० : इतरथा पूर्वोक्तविपर्यये पुनः किमित्याहुः देव० : इतरथा पूर्वोक्तविपर्यये पुनः किमित्याह
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चेइअकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ॥ ८८ ।।
च
चक्रे० : सुगमा, नवरं कुलमेकाचार्यसन्ततिः, गणः कुलत्रयसमुदायः, 'तेण कयं' ति तेन साधुना कृतं कृत्यमिति गम्यम् । 'तवसंजममुज्जमंतेणं' ति तपः संयमयोरुद्यच्छता।।८८ ।। देव० : चैत्यकुलगणसङ्खेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किम् ? सर्वेष्वपि तेन कृतं कृत्यमिति गम्यते केनेत्याह-तपःसंयमयोरुद्यच्छता साधुनेति, तत्र चैत्यान्यर्हत्प्रतिमाः, कुलं चान्द्रादि, गणः कुलसमुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, शब्दादुपाध्यायपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, प्रवचनमर्थः, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदसूचक एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते । इयमत्र भावना-अयं हि नियमाज्ज्ञानदर्शनसम्पन्नो भवति, अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येष्वपि सम्यक् प्रवर्तते, यथैहिकामुष्मिकगुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽविवेकादकृत्यमेव सम्पादयतीति गाथार्थः ।। ८८ ।।
* पञ्चवस्तौ - १०३ *
चेइअकुलगणसंघे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ।।
1
चैत्यकुलगणसङ्गेषु चैत्यान्यर्हत्प्रतिमाः, कुलं चान्द्रादि, परस्परसापेक्षानेककुलसमुदायो गणः, बालिका(श्राविका) पर्यन्तः सङ्घः, तथाऽऽचार्याणां प्रसिद्धतत्त्वानां प्रवचनश्रुतयोश्च प्रवचनमर्थः श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि तेन साधुना कृतं यत्कर्त्तव्यम्, केन ? इत्याह- तपः संयमयोरुद्यच्छता तपसि संयमे चोद्यमं कुर्वतेति गाथार्थः ।। १०३।।
१. तवसंजमउज्जमंतेण A, T, C