________________
१०२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तत्र यद्यपि क्षुद्रः तुच्छ:, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रो लघुरित्यनेकार्थः क्षुद्रशब्दस्तथाऽपीह तुच्छार्थों गृह्यते तस्यैव प्रस्तुतोपयोगित्वात्, ततः क्षुद्रस्तुच्छोऽगम्भीर इत्यर्थस्तद्विपरीतोऽक्षुद्रः स च सूक्ष्ममतित्वात् सुखेनैव धर्ममवबुध्यते। २-रूपवान् संपूर्णाङ्गोपाङ्गतया मनोहराकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति, ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ? सत्यम्, इह द्विविधं रूपं-सामान्यमतिशायि च, तत्र सामान्यं संपूर्णाङ्गत्वादि, तच्च नन्दिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात्, एवमग्रेऽपि, अतिशायि पुनर्यद्यपि तीर्थकरादीनामेव सम्भवति तथापि येन क्वचिद्देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तव्यम् ३-प्रकृत्या स्वभावेन सौम्योऽभीषणाकृतिविश्वसनीयरूप इत्यर्थः, एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते सुखाश्रयणीयश्च भवति । ४-लोकस्य सर्वजनस्येहपरलोकविरुद्धवर्जनेन दानशीलादिगुणैश्च प्रियो वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति । ५-अक्रूरोऽक्लिष्टाध्यवसायः, क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वनपि न फलभाग्भवतीति । ६-भीरु ऐहिकामुष्मिकापायेभ्यस्त्रसनशीलः, स हि कारणेऽपि सति न निःशङ्कमधर्मे प्रवर्तते । ७-अशठोऽच्छद्मानुष्ठाननिष्ठः, शठो हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो भवति । ८-सदाक्षिण्यः स्वकार्यपरिहारेण परकार्यकरणकरसिकान्तःकरणः, स च कस्य नाम नानुवर्तनीयो भवति ? ९-'लज्जालुओ'त्ति प्राकृतशैल्या लज्जावान्, स खल्वकृत्यासेवनवार्तयाऽपि व्रीडते, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न शक्नोति । १०-दयालुर्दयावान्, दुःखितजन्तुजातत्राणाभिलाषुक इत्यर्थः, 'धर्मस्य हि दया मूल 'मिति प्रतीतमेव । ११-मध्यस्थो रागद्वेषत्यक्तधीः, स हि सर्वत्रारक्तद्विष्टतया विश्वस्यापि वल्लभो भवति । १२-सौम्यदृष्टिः कस्याप्यनुद्वेजकः, स हि दर्शनमात्रेणापि प्राणिनां प्रीतिं पल्लवयति । १३-गुणेषु गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलो गुणरागी, स हि गुणपक्षपातित्वादेव सद्गुणान् बहु मन्यते निर्गुणांश्चोपेक्षते । १४-सत्कथाः-सदाचारचारित्वात्सुचरित्रचर्याकथनरुचयो न तु दुश्चारित्रचर्याकथनरुचयो ये सपक्षाः सहाया जनास्तैर्युक्तोऽन्वितो, धर्माविबन्धकपरिवार इति भावः, एवंविधश्च न केनचिदुन्मार्गं नेतुं शक्यते, अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथग्गुणद्वयं मन्यन्ते, मध्यस्थः सोमदृष्टिश्चेति द्वाभ्यामप्येकमेवेति । तथा १५-सुदीर्घदर्शीसुपर्यालोचितपरिणामपेशलकार्यकारी, स किल पारिणामिक्या बुद्ध्या सुन्दरपरिणाममैहिकमपि कार्यमारभते। १६-विशेषज्ञः सारेतरवस्तुविभागवेदी, अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यति । १७-वृद्धान् परिणतमतीननुगच्छति गुणार्जनबुद्ध्या सेवत इति वृद्धानुगः, वृद्धजनानुगत्या हि प्रवर्तमानः पुमान् न जातुचिदपि विपदः पदं भवति । १८-विनीतो गुरुजनगौरवकृत्, विनयवति हि सपदि संपदः प्रादुर्भवन्ति । १९-स्वल्पमप्युपकारमैहिकं पारत्रिकं वा परेण कृतं जानाति न