________________
1101
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન पूर्वस्मात्, परस्मै, परस्मात्, अवरस्मै, अवरस्मात्, दक्षिणस्मै, दक्षिणस्मात्, उत्तरस्मै, उत्तरस्मात्, अपरस्मै, अपरस्मात्, अधरस्मै, अधरस्मात् ; व्यवस्थाया अन्यत्र न भवति-दक्षिणाय गाथकाय देहि, प्रवीणायेत्यर्थः, दक्षिणायै द्विजाः स्पृहयन्ति। आत्माऽऽत्मीय-ज्ञाति-धनार्थवृत्तिः स्वशब्दः, आत्माऽऽत्मीययो:- यत् स्वस्मै रोचते तत् स्वस्मै ददाति, यदात्मने रोचते तदात्मीयाय ददातीत्यर्थः, ज्ञाति-धनयोस्तु न भवति-स्वाय दातुं स्वाय स्पृहयति, ज्ञातये दातुं धनाय स्पृहयतीत्यर्थः । बहिर्भावेन बाह्येन वा योगे उपसंव्याने उपसंवीयमाने चार्थे वर्तमानोऽन्तरशब्दः, न चेद् बहियोगेऽपि पुरि वर्तते, अन्यतरस्मै गृहाय, नगरबाह्याय चाण्डालादिगृहायेत्यर्थः, चाण्डालादिगृहयुक्ताय वा नगराभ्यन्तरगृहायेत्यर्थः, अन्तरस्मै पटाय, पटचतुष्टये तृतीयाय चतुर्थाय चेत्यर्थः, प्रथमद्वितीययोर्बहियोगेणैव सिद्धत्वात् ।"पुरि तु न भवति-अन्तरायै पुरे क्रुध्यति चाण्डालादिपुर्य इत्यर्थः, बहिर्योगोपसंव्यानादेरन्यत्र तु न भवति-अयमनयोामयोरन्तरात् तापस आयातः, मध्यादित्यर्थः।
त्यस्मै। तस्मै । यस्मै। अमुष्मै। अस्मै। एतस्मै। एकस्मै। द्वि-युष्मद्-भवत्वस्मदां स्मायादयो न संभवन्तीति सर्वविभक्त्यादयः प्रयोजनम्-(द्वौ हेतू) २, द्वाभ्यां हेतुभ्याम् ३, द्वयोर्हेत्वोः २ ; अज्ञाते द्वे-द्वके स्त्रियौ कुले वा, द्वको पुरुषो। युवाभ्यां हेतुभ्यां ३, युवयोर्हेत्वोः २, युवकाभ्याम्, युष्मादृशः। भवद्भ्यां हेतुभ्याम् ३, भवतोहेत्वोः २, भवकान्, भवादृशः । स च भावांश्च भवन्तौ, अत्र त्यदादित्वात् परत्वाञ्च भवच्छेषः, भवान् पुत्रोऽस्येति भवत्पुत्रः, अत्र सर्वादित्वात् पूर्वनिपातः ; भवतोऽपत्यं भावतायनिः, अत्र त्यदादित्वादायनिञ् ; भवत्याः पुत्रो भवत्पुत्रः अत्र सर्वादित्वात् पुंवद्भावः । भवन्तमञ्चतीति क्विपि, भवव्यङ्, अत्र "सर्वादि-विष्वग्-देवाडुद्रिः क्व्यञ्चौ" (३.२.१२२.) इति डव्यागमः, उकारो नागमार्थो ड्यर्थो दीर्घार्थश्च, भवती, भवान्। आवाभ्यां हेतुभ्याम् ३, आवयोहेत्वोः २, आवकाभ्याम्, अस्मादृशः। कस्मै, कस्मात्। सर्वेऽपि चामी संज्ञायां सर्वादयो न भवन्ति, तेनेह न भवति-सर्वो नाम कश्चित्, सर्वाय, सर्वात्, उत्तराय कुरवे स्पृहयति। अत इत्येव? भवते, भवतः। सर्वादेरिति षष्ठीनिर्देशेन तत्सम्बन्धिविज्ञानादिह न भवति-प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय, सर्वानतिक्रान्तायातिसर्वाय, द्वावन्यावस्य तस्मै व्यन्याय त्र्यन्याय, प्रियपूर्वाय। सर्व, विश्व, उभ, उभयट्, अन्य, अन्यतर, इतर, डतर, डतम, त्व, त्वत्, नेम, सम-सिमौ सर्वार्थो, पूर्व-परा-ऽवर-दक्षिणोत्तरा-ऽपराधराणि व्यवस्थायाम, स्वमज्ञाति-धनाख्यायाम, अन्तरं बहिर्योगोपसंव्यानयोरपुरि, त्यद्, तद्, यद्, अदस्, इदम्, एतद्, एक, द्वि, युष्मद्, भवतु, अस्मद्, किम्, इत्यसंज्ञायां सर्वादिः। उभयडिति टकारो ड्यर्थः, उभयी दृष्टिः।।७।। સૂત્રાર્થ - (સર્વાદિગણપાઠ વૃત્તિ) આ કારાન્ત સવદિ નામો સંબંધી અને કવિ પ્રત્યયોના સ્થાને અનુક્રમે
स्मै भने स्मात् माहेश थाय छे. सूत्रसमास:- . सर्वशब्दः आदिः यस्य स = सर्वादिः (बहु०)। तस्य = सर्वादेः
. स्मैश्च च स्मात् च = स्मैस्मातौ (इ.व.)। वि१२ :- (1) सूत्रता सर्वादि श स्थणे सर्वशब्दः आदिः यस्य स = सर्वादि' याप्रमाणे मधुप्रीहि समास यो छ.
1220