________________
परिशिष्ट-२
४39 ननूपदाऽव्याप्त्यतिव्याप्ती उभावपि लघीयोन्यासौ “अर्द्धात् पूरणः" “अर्द्धपूर्वः पूरणः" इत्येवमूहितौ त्वं पर्यहासीः, परं ते प्रदर्शिते अव्याप्त्यतिव्याप्ती सूक्ष्मं विमृष्टे न क्षमेते इहोपस्थातुम्, तथाहि-यथा “अजादिभ्यो धेनोः" (६.१.३४) "ब्राह्मणाद्वा" (६.१.३५) इत्यादौ 'अजादिभ्यः' इत्यादौ पञ्चमी निर्दिश्य धेनोः प्रत्ययो विहितः, तत्र “पञ्चम्या निर्दिष्टे परस्य" (७.४.१०४) इति परिभाषया सत्यां व्यवस्थायां व्यवहिते धेनुशब्दे नोत्पद्यते प्रत्ययः, किन्तु प्रत्ययविधानावधित्वं सूत्रीयोद्देश्यतया अजधेनु' रूपसमुदाये एव वर्तते न तु केवले धेनौ, अत एव तत्समुदायात् प्रत्ययोत्पत्तौ तदाऽऽद्यस्वरस्यैव वृद्धौ ‘आजधेनविः' इति प्रयोगो युज्यते, इतरथा (अजादेः परस्य धेनोरेवोद्देश्यतया प्रत्ययविधानावधित्वाङ्गीकारे) 'अजधैनविः' इत्यनिष्टमापद्येत, तथैव “अर्द्धात् पूरणः" इति न्यासेऽपि व्यवहितस्य पूरणप्रत्ययान्तस्योद्देश्यकोट्यन्तःपातित्वं “पञ्चम्या निर्दिष्टे०" (७.४.१०४) इत्येतद्वलमास्थायाऽपहियते चेदपहियताम्, सङ्ख्यावत्त्वातिदेशोद्देश्यत्वस्य अर्द्धपञ्चमादिसमुदायादपहारस्तु न युक्त इति समुदायस्य तस्य सङ्ख्यावत्तयेष्टौ कप्रत्ययसमासौ निर्बाधं सेत्स्यत एवेत्यव्याप्तिः सुखं विहन्येत। अर्धशब्दात् परस्य समासानवयवस्य पञ्चमादिशब्दस्य सङ्ख्यावत्त्वातिव्याप्तिरपि न सम्भवति, तथाहि-वृत्तिघटकादर्द्धशब्दात् परस्य पञ्चमादेः सङ्घयावत्त्वेन कप्रत्यय: समासो वा तव विधानलक्ष्यः, तत्र तद्धितप्रत्ययस्य स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नवाचकतापर्याप्त्यधिकरणादेवोत्पत्तेः सिद्धान्तितत्वादर्द्धशब्द-पूरणप्रत्ययान्तयोरसमासेन स्थितिदशायां कप्रत्ययार्थान्वयिनोऽर्थस्यार्द्धत्वविशिष्टपञ्चमादिरूपस्य वाचकं किमपि नाम नास्तीति सुतरां कप्रत्ययो नोत्पत्स्यते। समासोऽप्यचिरोक्ते समाससंज्ञकपदमवष्टभ्यैकार्थेऽवस्थास्यमाने एव भवतीति प्रकृते पञ्चमादिशब्दमात्रस्य सङ्ख्यावत्त्वेन तस्यैव पदान्तरेण शूर्पादिना समासो वक्तव्यः, सोऽपि पञ्चमाद्यर्थनिरूपितशक्तिग्रहप्रयोज्यग्रहविषयीभूतार्द्धपञ्चमशूर्थिनिरूपितशक्तिपर्याप्त्यधिकरणत्वस्यैकार्थ्यघटकस्यार्द्धशब्दाऽघटिते पञ्चमशूर्पादिशब्दे विरहेणैकार्थ्याभावान भविष्यतीत्यतिव्याप्तिरपि विहन्येत।
एवमाचार्येणावयविवाचकेन सहावयववाचकानां समासविधित्सयाऽपराऽधरोत्तराणामिव पूर्वशब्दस्यापि “पूर्वापराधरोत्तरमभिनेनांशिना" (३.१.५२) इति समाससूत्रे निवेशं कुर्वता स्पष्टमेवाऽवयवत्वेन वाचकता तस्याऽभ्युपेता, कोषैरपि च सा प्रतीयत इति तन्मार्गमनुसृत्य “अर्द्धपूर्वः पूरणः" इति न्यासकल्पे अर्द्धशब्दः पूर्व आद्यवयवो यस्येत्यर्थकरणे “अर्द्धपूर्वपदः पूरणः" इति न्यासपक्ष इवाऽव्याप्त्यतिव्याप्ती न भविष्यतः। एवं च सति कथमेतौ लघीयोन्यासावुपेक्ष्येते इति चेद्, उच्यते-तद्धितप्रत्ययः स्वार्थान्वयिवाचकनाम्नः परीभूयोत्पद्यत इति हि तव मम च मतम्, तथा च अज-धेनुशब्दयोरसमासतया स्थिती अजधेनुरूपविशिष्टार्थस्य वाचकं नाम तत्र नोपलभ्येतेत्यकामेनाऽपि “अजादिभ्यो धेनोः" (६.१.३४) इत्यादिना समासात्मकसमुदायादेव तद्धितप्रत्यय उत्पाद्येतेति तत्र प्रत्ययोद्देश्यत्वं पञ्चम्यन्तपदबोध्यघटिते 'अजधेनु'प्रभृतिशब्दे समुदिते एव युज्यते, यत्र तु सूत्रीयपञ्चम्यन्तविशेषणपदबोध्याघटिते साक्षादुद्देश्यत्वस्वीकारे न काऽपि दुर्घटना तत्र तथा स्वीक्रियत एव, यथा “पदाद् युग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे" (२.१.२१) इत्यत्र वस्नसादेशोद्देश्यत्वं पदादितिपञ्चम्यन्तपदबोध्याऽसहितयोरेव युष्मदस्मदोः, "तृतीयान्तात् पूर्वावरं योगे" (१.४.१३) इत्यत्र तृतीयान्तादिति बोध्याऽसहितयोरेव पूर्वावरयोः सर्वादित्वनिषेधोद्देश्यत्वम्, परम्परयोद्देश्यत्वं पञ्चम्यन्तपदबोध्येऽपीत्यन्यदेतत्, एवं प्रकृतेऽपि अर्द्धादिति पञ्चम्यन्तपदबोध्याऽसहितस्यैव पूरणप्रत्ययान्तस्य पञ्चमादेः सङ्ख्यावत्त्वं स्यान्न तु समुदितस्यार्द्धपञ्चमादेरिति “अर्द्धात् पूरणः" इति न्यास उपेक्ष्यते।
यदि केवलस्य पञ्चमादेः सङ्घयावत्त्वे प्रकृतेऽप्युक्तदिशा कप्रत्ययसमासयोरसिद्धिरूपा दुर्घटनाऽस्त्येवेति “अजादिभ्यो धेनोः" (६.१.३४) इत्यादाविव समुदिते एव सङ्ख्यावत्त्वातिदेशोद्देश्यत्वं ब्रूयाः, तदा स्पष्टप्रतिपत्त्यर्थमेव तन्न्यासाऽनादरेण “अर्द्धपूर्वपदः पूरणः" इति न्यासमङ्गीकुरु। 'अर्द्धात् पूरणः' इति न्यासे हि केवलस्य पूरणप्रत्ययान्तस्य पञ्चमशब्दादेः सङ्ख्यावत्त्वातिदेशेऽपि पूर्वोक्तेन 'स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नवाचकतापर्याप्त्यधिकरणादेव तद्धितोत्पत्तिः' इति नियमेन कप्रत्ययस्य ऐकार्थ्यविरहेण समासस्य च प्राप्तिर्नास्तीति द्वयोरप्यतिदेशफलयोरसिद्धेः सूत्रं व्यर्थमेव स्यादतः “अनादिभ्यो धेनोः" (६.१.३४) इत्यत्रेव समुदितस्य (अर्द्धपूर्वपदकपूरणप्रत्ययान्तोत्तरपदकस्य) अतिदेशो ज्ञाप्य इति महताऽनुसन्धानेन व्याप्येत सूत्रजो बोध इत्यस्पष्टा प्रतिपत्तिरितो
-