________________
3८८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન साधनव्यापारस्य प्राधान्यं क्रियायास्तदुपलक्षणत्वेन व्यापाराद्; अयमेव कृदाख्यातयोर्भेद इत्याह-त्याद्यन्तं पदमित्यादि। ननु साव्ययं सकारकं सकारकविशेषणं सक्रियाविशेषणं चाख्यातं वाक्यमिति वक्तव्यम्। साव्ययं यथा-उच्चैर्न पठतीति, सकारकम
ओदनं पचतीति, सकारकविशेषणम्-मृदु विशदमोदनं पचति, साव्ययकारकविशेषणम्-देवदत्त ! गामभ्याज शुक्लां दण्डेनेति, सक्रियाविशेषणम्-सुष्ठु पचति। न वक्तव्यम्-सर्वाण्येतानि क्रियाविशेषणानि, किञ्चिद् विशेषणं साक्षाद् भवति, किञ्चित् पारम्पर्येण, तदपि किञ्चित् प्रयुज्यमानं किञ्चिदप्रयुज्यमानम्, सामान्यनिर्देशेन च सर्वस्यापि परिग्रह इत्याह-साक्षादित्यादि-यत् क्रियायाः साधनस्य वा तदतदात्मनोऽतद्रूपादव्यवधानेन व्यवच्छेदकं क्वचित् तत् साक्षाद् विशेषणम्। यत् तद्विशेषणस्य विशेषणं तत् पारम्पर्येण, तदपि तद्विशिष्टेन त्याद्यन्तं विशिष्यत इति तद्विशेषणेऽपि नियोगात् तस्य विशेषणं भवत्येवेति।
__ "धृग् धारणे" दुर्गतौ पतन्तं जन्तुसन्तानं धरति “अर्तीरिस्तु-सु-हु०" (उणा० ३३८) इति मे धर्मः, "रक्ष पालने" पञ्चम्यास्तुवि शवि च रक्षतु, "राधं साधंट संसिद्धौ” “कृ-वा-पा-जि०" (उणा० १) इत्युणि साधुः। “वद व्यक्तायां वाचि" तिवि वदति। तत्र 'धर्मः' इत्यादि साक्षात् समानाधिकरणं विशेषणम्, कर्तुस्तिवादिप्रत्ययेनाभिधानात्। 'वो नः' इति कर्म साक्षाद् व्यधिकरणं विशेषणम्, कर्मणस्तिवादिनाऽनभिधानाद्, इति त्याद्यन्तं वाक्यम्, तत्र पदाद् वस्-नसादिर्भवति, एवमन्यत्रापि। “भुजंप् पालनाभ्यवहारयोः" भोजनाय "क्रियायां क्रियार्थायां तुम्०" (५.३.१३) इति तुमि उपान्त्यगुणे भोक्तुम्, “डुयाग् याञ्चायाम्" वर्तमानायास्तेप्रत्यये शवि च याचते। (शालिनामिति-) “शल गतौ” शलन्ति-आशु वृद्धिं गच्छन्ति “कमि-वमि-जमि-घसिशलि०" (उणा० ६१८) इति णिदिप्रत्यये शालिः, (ओदनमिति-) “उन्दैप् क्लदने" उनत्ति खरविशदरूपेण विक्लदं गच्छति “उन्देनलुक् च" (उणा० २७१) इत्यने नलुकि गुणे च ओदनः, “डुदांग्क् दाने" तिवि “हवः शिति" (४.१.१२) इति द्वित्वे ह्रस्वे ददाति। ओदनस्य साक्षाद् विशेषणस्य विशेषणत्वाच्छालीनामिति पारम्पर्येण विशेषणम्। “लूग्श् छेदने", "पूग्श् पवने" हौ "क्यादेः" (३.४.७९) इति श्राप्रत्यये “प्वादेर्हस्वः" (४.२.१०५) इति ह्रस्वे “एषामीयंजनेऽद:" (४.२.९७) इतीत्वे वाक्यत्वात् 'क्षियाशीः प्रेषे" (७.४.९२) इति प्लुते च लुनीहि३, पुनीहि३ इति। (पृथुकानिति-) “प्रथिष् प्रख्याने" “कञ्चकांशुकनंशुक०" (उणा० ५७) इति निपातनात् पृथुक इति, “खादृ भक्षणे" हौ शवि "अतः प्रत्ययालक्" (४.२.८५) इति हेर्लुकि च खाद। “षचि सेचने" "कृ-सि-कम्यमि-गमि-तनि०" (उणा० ७७३) इति तुनि “चजः कगम्" (२.१.८६) इति कत्वे शसि च सक्तून्, “पां पाने" हो "श्रौति-कृवु-धिवु०" (४.२.१०८) इति पिबादेशे च पिब। अत्र केदारादेविशेषणस्याप्रयुज्यमानत्वेऽपि 'लुनीहि' इत्याद्याख्यातस्य वाक्यत्वात् प्लुतः सिध्यति। "शीङ्क स्वप्ने" शेरतेऽस्मिन् गुणा इति “शुक-शी-मूभ्यः कित्" (उणा० ४६३) इति ले शीलम्, "असूच क्षेपणे" अस्यति क्षिपति दौर्गत्यम् “प्रह्वाऽऽह्वा-यह्वा०" (उणा० ५१४) इति वे अकारलोपे च स्वम्। अत्रास्तीति क्रियापदं न प्रयुज्यते, (परं तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम्। ननु शब्दप्रयोगोऽर्थप्रतिपत्त्युपायः) तस्याप्रयुज्यमानस्यापि विशेषणविशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात् सर्वं सर्वस्य विशेषणं विशेष्यं च भवेत्। किञ्च-यद्यप्रयुज्यमानमपि शब्दरूपं विशेषणं विशेष्यं चार्थप्रतिपत्तिसमर्थं स्यात् तदाऽनर्थकः सर्वत्र तत्प्रयोगः; अत आह-अर्थादित्यादि। अयमर्थ:-परार्थः शब्दः प्रयुज्यते, परेण च य एवार्थ आकाङ्कितोऽनधिगतश्च स एव प्रतिपादयित्रा शब्देन प्रतिपाद्यः, न चार्थप्रतिपत्तौ शब्द एव केवल उपायः, किन्त्वर्थप्रकरणादिरपि। यदाह स्वोपज्ञालङ्कारचूडामणौ-"वक्त्रादिवैशिष्ट्यादर्थस्यापि 'मुख्यामुख्यात्मनो' व्यञ्जकत्वम्" (वक्तृप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशाद् अर्थस्यापि मुख्यामुख्यव्यङ्ग्यात्मनो व्यञ्जकत्वम्) तथा
"प्रस्तावादथवौचित्याद् देश-कालविभागतः।
शब्दाशार्थाः प्रतीयन्ते न शब्दादेव केवलाद्" ।।१६।। इति। तत्र यदोपायान्तरेणापि विशेषणं विशेष्यं वा प्रतीयते, तदाऽऽकाङ्क्षायाः पूर्णत्वादर्थस्य चाधिगतत्वान्न प्रयुज्यते तदभिधायी शब्द इत्यप्रयुज्यमानतोपपद्यते। दृश्यन्ते हि लौकिका वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः, यथा-'प्रविश' पिण्डीम्, इति। अत्र हरिः