________________
परिशिष्ट-२
૩૬૫ मत्वर्थीये मत्सरिणः। प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति “व्यञ्जनाद् घञ्" (५.३.१३२) इति घञि प्रवादा: प्रवचनानि। यथा परस्परविरोधात् परे प्रवादा मत्सरिणः, न तथा त्वत्समय इति । अत्र विशेषणद्वारेण हेतुमाह-पक्षपातीति-यतो रागनिमित्तवस्तुस्वीकाररूपं-पक्षं पातयति नाशयतीत्येवंशीलः, रागस्य जीवनाशं नष्टत्वात्। अत्रैव हेतुमाह-नयानशेषानविशेषमिच्छनिति-नयान् नैगमादीन् समस्तानविशेषमभेदं यथा भवत्येवमङ्गीकुर्वन्। अयं भावः-नयाना समत्वेन दर्शनाद् रागमयस्य पक्षस्य पातितत्वात् समयस्य मत्सराभावः, परेषां तु विपर्ययात् तत्सद्भाव इति। सम्यगेति गच्छति शब्दोऽर्थमनेनेति “पुत्रानि०" (५.३.१३०) इति घे समयः संकेतः । यद्वा, सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रूपे प्रतिष्ठां प्राप्नुवन्त्यस्मिन्निति समय आगमः। मत्सरित्वस्य विधेयत्वात् तेनैव नत्रः संबन्धात् पक्षपातिशब्देन त्वसंबन्धात् प्रक्रम-भेदाभावः।
परोक्तेनापि द्रढयति-नया इत्यादि-नीयन्ते प्राप्यन्ते जीवादयोऽर्था एकदेशविशिष्टा एभिरिति नयाः, निरवधारणा अभिप्रायविशेषाः, सावधारणस्य दुर्नयत्वात्, समस्तार्थप्राप्तेस्तु प्रमाणाधीनत्वात्, ते च नैगमादयः सप्त, तव स्यात्पदेन चिह्निता अभिप्रेतं फलन्ति-लिहाद्यच् ("लिहादिभ्यः" ५.१.५०) (निष्पादयन्ति) अभिप्रेतं फलं येभ्य इति बहुव्रीहिर्वा। प्रणता इति- प्रणन्तुमारब्धवन्तः। हितैषिण इति विशेषणद्वारेण हेतुः, हितैषित्वादित्यर्थः । 'आराद् दूरान्तिकयोः' सम्यग्ज्ञानाद्यात्मकमोक्षमार्गस्याऽऽरात् समीपं याताः प्राप्ताः, दूरं वा पापक्रियाभ्यो याता(गता) इत्यार्याः। नन्वस्तु युक्तियुक्तः स्याद्वादस्तदधीनत्वाच्छब्दसिद्धेः, तथापि अनभिहिताभिधेयप्रयोजनत्वात् कथमिदं प्रेक्षावत्प्रवृत्तिविषय इत्याशङ्कयाऽऽह-अथवेति-विविक्तानामसाधुत्वविमुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानरूपा सिद्धिः। साधुशब्दाश्चात्राऽभिधेयाः । यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनमिति सम्यग्ज्ञानमनन्तरं प्रयोजनम्, तद्द्वारेण तु निःश्रेयसं परमिति। यतः
"द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। शब्दब्रह्मणी निष्णातः परं ब्रह्माधिगच्छति"।।८।। (त्रिपुरातापिन्युपनिषद् ४.१७) "व्याकरणात् पदसिद्धिः पदसिद्धेरर्थनिर्णयो भवति।
अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् पर श्रेयः ॥९॥ इति। संबन्धस्त्वभिधेय-प्रयोजनयोः साध्य-साधनभावः, शब्दानुशासनाभिधेययोस्तु अभिधानाभिधेयरूपः, स च तयोरेवान्तर्भूतत्वात् पृथग् नोपदर्शित इति ।।२।।
लोकात् ।१।१३।। बृन्यास-लोकादिति-"लोकङ् दर्शने" लोक्यतेऽवलोक्यते निर्णयार्थमिति घजि लोकः, लोकते पश्यति सम्यक् पदार्थान् इत्यचि वा। उक्तात-उक्ताः स्वरादिसंज्ञाः, ताभ्योऽतिरिक्ताः क्रियादिसंज्ञास्तासामिति। “साध्यरूपा पुर्वापरीभूताऽवयवा क्रिया" इति वैयाकरणाः। “संयोग-विभागयोरनपेक्षकारक(ण) कर्म" इति प्रामाणिकाः (वैशेषिकसूत्रम्)। विशेषणं गुण:
"सत्त्वे निविशतेऽपैति (पृथग्जातिषु दृश्यते। आधेयश्च क्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः" । ।।१०।।) इत्यादिको वा। "आकृतिग्रहणा (जातिलिङ्गानां च न सर्वभाक्।
सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैस्सह" ।।११।।) इत्यादिलक्षणलक्षिता जातिः। त्रुट्यादिः कालः
("स्वस्थे नरे समासीने स्पन्दते वामलोचनम्। तस्य त्रिंशत्तमो भागस्त्रुटिरित्यभिधीयते
।।१२।।) स्त्यानप्रसवो लिङ्गम्, रूपादीनां पर्यायाणामपचयः स्त्यानं स्त्री, तेषामेव प्रवृत्तिः सवनं प्रसवः पुमान्, साम्यावस्था नपुंसकमिति।