________________
[ है ० ७.२.११९. ]
एकोनविंशः सर्गः ।
५०१
त्यर्थः । अधरात्पाताले यातो गतः पुनः शेषाहि रेवाभूदित्यर्थः । तथा यत्कीर्त्या हूयमधरात्पश्वीच पातालमर्त्यलोकावित्यर्थः । रम्यमोजसा बलेन कृत्वा तं शेषाहिं शेषतुल्यबलमित्यर्थः । त्वामान्नो वेत्ति ॥
परस्तात् अवरस्ताद्वशम् । परस्तादवरस्तादायातु । परस्तादवरस्ताद्यातु । इत्यत्र “पर०” [ ११६ ] इत्यादिना स्तात् ॥
दक्षिणत उत्तरतो वशम् । दक्षिणत उत्तरत आयातु । दक्षिणत उत्तरतो यातु । परतोवर तो वश्यम् । परतोवरतः सकाशाद्यातः । परतोवरतो यातः । अत्र " दक्षिण०" [ १७ ] इत्यादिना तस् ॥
अधरात् पश्वाद्रम्यम् । अधरात्पश्वादेतः । अधरात्पश्वाद्यातः दक्षिणादुतेराद्वश्यम् । दक्षिणादुत्तरात्सकाशाद्यातः । दक्षिणादुत्तरायातः । अत्र "अधर०" [ ११८ ] इत्यादिना -आत् ॥
वसता दक्षिणा रम्यं येन तस्य मुनेः समम् ।
मात्रा सह गुरुं प्रैषीदान्नस्ते दातुमात्मजाम् ॥ २१ ॥
२१. आन्नस्ते तुभ्यमात्मजां दातुं मात्रा + पुत्रीजनन्या सह गुरुं पुरोहितं प्रेषीत् । कीदृशम् । तस्य मुनेरर्गेस्त्यस्य प्रभावादिना समं तुल्यम् । येन मुनिना कृत्वा दक्षिणा दक्षिणा दिग्देशो वा रम्यं पवित्रम् । यतो दक्षिणा दक्षिणस्यां दिशि देशे वा वसता तिष्ठता ॥
५
दक्षिणा रम्यम् । दक्षिणा वसता । इत्यत्र "वा दक्षिणात् ०" [११९] इत्यादिना - आवा ॥ पक्षोदाहरणानि प्राक्तनान्येव ज्ञेयानि ॥
१ बी सी गुरमै'.
१ ए ंश्चान्वपा. २ए 'गस्तस्य. ५ सी 'क्षिण'.
तो । उ°.
६ एम् । याद'.
३ ए तरायातः । अत्र. ४ बी
+ पञ्चाशत्तमश्लोकस्थेन पितामहीसममित्यनेन विरोधं परिहृतुं स्वजनन्या इत्यावश्यकमिति भाति ।