________________
व्याश्रयमहाकाव्ये षोडशः सर्गः ।
सवार्त्तिकैरष्टकसर्वतत्रैः सगौतमैरेत्य कुमारपालः । अथाभिषिक्तः कठताण्डिमुख्यैः पैतामहं राज्यमलंचकार ॥ १ ॥
१. अथ कुमारपालः पैतामहं कुमारपालपिता हि त्रिभुवनपालो जयसिंहस्य भ्रातृजत्वात्पुत्रतुल्य इति जयसिंह: कुमारपालस्य पितामहस्तत्संबेन्धि राज्यमलंचकार । कीदृक्सन् । कठताण्डिमुख्यैः कठेन प्रोक्तं वेदं ताण्ड्येन प्रोक्तं ब्राह्मणं च विदन्त्यधीयते वा ये तत्प्रभृतिभिः पुरोहितामात्याद्यैरेत्याभिषिक्तः कृतराज्याभिषेकः । किंभूतैः । सवार्त्तिकैर्वृत्तिरेव विनयादित्वादिकणि [ ७. २. १६९ ] वार्त्तिकं तेन सह सवार्तिकं सूत्रं विदन्त्यधीयते वा तैस्तथाष्टकसर्वतत्रैरष्टकी अष्टकमष्टाध्यायमानं पाणिनीयं सूत्रं विदन्तोधीयाना वा ये सर्वतत्राः सर्वतन्त्राणि सर्वदर्शन सिद्धान्तान्विदन्तोधीयाना वा तैस्तथा सगौतमैर्गोतमर्षिप्रोक्तवेदवित्सहितैः ॥
O
सवार्त्तिकैः । सर्वतन्त्रैः प्रः । अत्र " ससर्व ० " [ १२७ ] इत्यादिनाणो लुप् ॥ अष्टक । अन्न “संख्या०" [ १२८ ] इत्यादिनाणो लुप् ॥
गौतमैः । अत्र “प्रोक्तात्” [ १२९ ] इत्यणो लुप् ॥
वेद । कठ ॥ इन्ब्राह्मण । ताण्डि । इत्येतौ "वेदेन्० " [ १३० ] इत्यादिना बेत्यधीत एतद्विषय एव प्रयुज्येते ॥ सर्गेस्मिन्नुपजातिश्छन्दः ॥
१ बी पालं पि. २ सी 'बन्धरा. ३ सी ताण्डेन. ४ बी काष्ट.. ५ एतत्रा'. ६ बी मैगत. ७ बी सी युज्यते. ८ ए 'पज्ञाति ९ बी सी 'तिच्छन्दः'.