________________
०६२
ख्याश्रयमहाकाव्ये
[कर्णराजः]
आत्तावदत्तैलिभिः स इत्थं समाहितो धीतसुधारसो नु । स्थितः सितांहा अदितामितौजा दिनान्यमातानि तपःशिताङ्गः
॥१४॥ १४. स कर्णोमातान्यसंख्यानि दिनानि स्थितः । कीदृक्सन् । इत्थमुक्तरीत्यात्ताबदत्तरात्ता: पूर्वमुत्तरसाधकेभ्यो गृहीता येवदत्ताः पंचालक्ष्म्यै प्रदत्तास्तलिभिः पूँजोपकरणैः कृत्वा सिताहा विनाशितविघ्नस्तथा तपःशिताङ्गस्तपश्चरणकृशदेहोत एवादिता मितौजा अप्रतिहतासंख्यर्तपःप्रभावस्तथा समाहितः समाधिवानत एव धीतसुधारसो नु पीतपीयूष इव ॥ अन्येचुरच्छातनिशातबुद्धौ हित्वान्यकर्माच्छितसंशितेसिन् । अभूजहित्वा समयं स्वसामग्रिकामजाहित्व ऋतुर्घनानाम् ॥१५॥
१५. अन्येयुर्घनानामृतुर्वर्षाकालोभूत् । किं कृत्वा । समयं स्वकालं जहित्वा त्यक्त्वाकाल इत्यर्थः । तथा स्वसामग्रिकां विद्युदादिसंपदमजाहित्वा गृहीत्वा । क सति । अस्मिन्कएँ । किंभूते । अच्छाताखण्डिता निशाता तीक्ष्णा बुद्धिर्ज्ञानं यस्य तस्मिन् । तथान्यकर्म तपस इतरद्राज्यादि कार्य हि त्वांच्छितमखण्डितं संशितमसिधारातीक्ष्णं व्रतं यस्य तस्मिन् । यद्वा । अकर्मकत्वविवक्षीयां संश्यति स्म संशितो व्रते यत्नवान् । अच्छितो यः संशितस्तस्मिन् ।
१ ए बी सी आत्तावदत्त. २ ए तः सतां. ३ ए तासितो. ४ ए हितान्य. ५ सी डी स्थित .
१५ बीसी 'त्यात्तावदत्तरात्ताः पू. २ डी 'दत्त्ताः प. ३ डी दत्तास्ते'. ४ए पूजौप. ५ ए देशोत. ६ ए तपप्र. ७ए तमुधा . ८ बी यूख १. ९ए क्त्वा इका'. १० सी डी त्वा क. ११ ए त्वा इच्छि'. सी रीवा सित. १२ ए क्षाया सं. १३ ए संसितो. १४ ए असितो. .१५५ 'न् | ई.