________________
६०४ ब्याश्रयमहाकाव्ये
[ भीमराजः] दावयितुं नैच्छन्नाकण्डूयियच्च । कण्डूयन्तं न प्रायुत । लक्षणयाह । यद्येतानि प्राप्नोमीति वाञ्छातिरेकं कुर्वन्तमन्यं न प्रयुक्तवान् । यद्यस्माद्धेतोरेप भीमो दिवा नासुसोपुपिपतात्यर्थं स्वप्न नैच्छन्नापि निशायां सोपुषिषते स्म प्रजापालनायां सदोद्यतोभूदित्यर्थः ।।
अकण्डूयियत् । अभ्यस्थियिपति । इत्यत्र "कण्टवादेस्तृतीयः" [ ९ ] इति द्वित्वम् ॥
असुसोपुपिषत । इत्यत्र "पुनरेकेषाम्" [१०] इति द्वित्वे कृते पुनर्द्वित्वम् ॥ एकेपामिति किम् । सोषुपिपते ॥ श्रीरिहेयियिषति स न वाचा वागपीयिषिषति स तया न । तो जुहोति विदुषां स च जित्युच्चकैश्च सचराचरकीर्तिः॥३२॥
३२. इह भीमे श्रीर्वाचा सह नेयियिषति स्म नेयितुमैच्छद्वागपि तया श्रिया सह नेयिषिषति स्म । अन्योन्यविरुद्ध अपि श्रीवाची विरोधं विहायात्रावतस्थतुरित्यर्थः । अत एव विदुषां तां लक्ष्मी जुहोति स्म च ददौ च । तथा चराचरे सकले जगति चराचरा परिभ्राम्यन्ती वा या कीर्तिर्दानपुण्योत्था विद्वत्कृता ख्यातिः सह तया यः स तथा सन्नुच्चकैरतिशयेन जिहेति स्म च । एतेनास्य महापुरुषत्वोक्तिः ॥ क्रीडयापि चलितेत्र महीपाट्पटार्वतपतापतधूल्या। द्राकलाचलघनाधनबुद्ध्याभूद्वदावदमुखो गुहबी ॥ ३३ ॥
३३. अत्र भीमे क्रीडयापि राजपाट्यापि चलिते प्रस्थिते महा १बी विष. . १बी ई युक्त । ल. २ ए नि पानो'. ३ बी वतम. ४ए बी सी सोपवि. ५वी यत । अ. ६ सी यिष्यति. ७५ सोपपि. ८बी बिप. ९ई यात्र त. १० बी या रा.