SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ५९३ [ है ० ३.४.८५.] अष्टमः सर्गः । पक्कम । एवं पच्यते पक्ष्यते च । कृतं क्रियमाणं करिष्यमाणं च श्रेयम्नवाभीष्टफलदानोन्मुखमभूद्भवति भविष्यति चेत्यर्थः । एतेन सर्वेण राज्ञसपोङ्गीकारो निषिद्धः ॥ तद्वदुग्धे गौस्तवासो वमनि स्वामिन्यद्ववेनमूनोरदुग्ध । हृविडोकोपक्त ते क्षत्रत्त्या नो वारुद्धामुत्र लोकः किमेतत् ॥१८॥ १८. यहृद्यथा वेनसूनोः पृथुगजस्य गौः पृथ्वी वसूनि रत्नानि द्रव्याणि वादुग्धाधुक्षददुग्ध वा गां वसूनि वेनसूनुः । स एवं विवक्षितवान्नाहं गामधुक्षि किंवदुग्ध गौः स्वयमेव न्यायपालनेन महर्द्धिकत्वात्म्वयमेव क्षरितवती तद्वत्तथा हे स्वामिस्तवासौ गौर्वसूनि दुग्धे स्वयमेव क्षरति । तथा ते तव क्षत्रवृत्त्याभङ्गशौर्यादिना क्षत्रियाचारेण कृत्वा द्विलोको हृद्धृदयमपक्त । पचिरत्र द्विकर्मकोन्तर्भूतण्यर्थो वा। अपाक्षीक्षत्रवृत्तिदिडोकं हृत् । प्रयोकैवं विवक्ष्यते नेयमपाक्षीकिं तु द्विडोको हृत्स्वयमेवापक्त स्वयं संतापितवानित्यर्थः । नो वा न च क्षत्रवृत्त्या कृत्वा तेमुत्र लोकः परलोकोरुद्ध नारौत्सीनारुधी । निवर्तमानं न न्यवीवृतत्क्षत्रवृत्तिरमुत्र लोकं नो वारुद्ध स्वयमेव । तस्मात्कि किमर्थमेतद्राज्यत्यागेन तपोग्रहणम् । तपोग्रहणं हि निःसपत्नमहर्द्धिकभूमिस्वामित्वरूपेहलोकफलार्थ स्वर्गापवर्गादिपरलोकफलार्थं च क्रियते । तच तव सर्व राज्यस्थस्याप्यप्रतिहतमस्ति तस्मात्किमनेन तपोग्रहणेनेत्यर्थः ॥ ये तपस्तप्यन्ते । तेपिरे । अत्र “तपेः" [ ८५] इत्यादिना कर्तरि निक्यास्मनेपदानि ॥ १ सी डोक्योप. १ सी डी एव प. २ सी डी "नि न्याणि रतानि वा'.३ सी डी दधुष. ४ सी सूनुः स एवं वि किं त्वदु. ए सूनुरदु. ५ई दुध्व गो. ६बी यं हृदयं सं. ७ सी नोरौ . ८ ई दाऽनि.९बी नं मन्य. १० सी कं नावा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy