________________
४३२
व्याश्रयमहाकाव्ये
[ मूलराजः ]
इत्याह । यतः कृत उम्रो मारणात्मको रिपोर्लक्षस्य निग्रहो येन
तस्मिन् ॥
ग्राहारिं सोमुचत्कृत्ताङ्गुलीकं भिक्षितः पतिम् । तस्य पाणिगृहीतीभिर्वालैर्गृहीतपाणिभिः ॥ १२९ ॥
१२९. स मूलराजो ग्राहारिममुचत् । कीदृशं सन्तम् । कृत्ता छिन्नाङ्गुल्यर्थात्कनिष्ठा येन यद्वाङ्गुल्यां कृत्तं येन तं स्ववेलायत्तं कृत्वेत्यर्थः । यतो बालैः कर्तृभिर्गृहीतपाणिभिरात्तहस्ताभिः सतीभिर्मूलराजस्य कृपातिरेकोत्पादनाय बालकान्हस्तेषु गृहीत्वेत्यर्थः । तस्य प्रा
3
भु
'4
हारेः पाणिगृहीतीभिर्भार्याभिः पतिं भर्तारं भक्षितोस्मभ्यं पतिभिक्षां देहीति याचितः ॥
ततः प्रभृति सौराष्ट्रैः खीवेपो जातजन्मभिः ।
अजन्मजातैश्वोपात्तः प्राह राजिभुवो यशः ॥ १३० ॥
१३० ततः प्रभृति तस्मान्मोक्षदिनादारभ्य स्त्रीवेष आप्रपदीनशाटिका परिधान कच्छादानाभावलक्षणो नारीवेषो राजिभुवो मूलराजस्य यः सौराष्ट्रजयोत्थां कीर्ति प्राह । संप्रत्यपि ज्ञापयतीत्यर्थः । कीदृक् । सौराष्ट्रैः सुराष्ट्रादेशोद्भवैर्लोकैरुपान्तो वयं मूलराजस्य पुर: स्त्रीकल्पा इति ज्ञापनाय गृहीतः । कीदृशैः । जातर्जन्मभिः । जन्मशब्दोत्र जन्मप्रभृतिजीवितकालवाची । जातं बाल्ययौवनवार्धक्यावस्थात्रयोपभोगेन कृतकृत्यत्वान्निष्पन्नं परिपूर्णीभूतं जन्मे जन्मवारो येषां तैरतिवृद्धैरित्यर्थः । तथा न जातं वार्धक्यानुपभोगेनाकृतार्थत्वादपरिपूर्णीभूतं जन्म येषां तैश्च बालैस्तरुणैश्चेत्यर्थः ॥
·
१ ए सी कृत्वा छि.. २ सी 'ही'. ३ ५ ए सी डी हीभि° ६ बी 'शः सुरा 'जम्मश ९ डी न्मवा.
•
सी 'तिरोको'. ४ बी 'णिर्गृही ७ ए सी 'बैलोकै. ८ सी