SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] धेन कृताश्चतस्रोध्यर्घतिस्रः । अक्षौहिणीशब्दो हस्ति २१८७० रथ २१८७० अश्व ६५६१० पदाति १०९३५० एवंप्रमाणचतुरङ्गबलवाचकोप्यत्र म्लेच्छैरित्युक्तरेकदेशे १०९३५० इतिमानेपु पत्तिध्वेव वर्तते । ततखिलक्षी ब्यशीतिसहस्री पञ्चविंशत्यधिकसप्तशतीप्रमाणास्तात्पर्येणातिभूयिष्ठम्लेच्छपत्तिमयीरित्यर्थः ।। तस्मान्मासावरेर्मासपूर्वैर्वा योधिभिनॅपैः । अवभिन्नारिवान्तामुक्पोभूत्पादहारकः ॥६० ॥ ६०. अखैः करणैर्भिन्ना विदारिता येरयस्तैः कर्तृभिर्वान्तानि व्युसृष्टानि यान्यमृति रक्कानि तेषां पङ्कः कर्दमोभूत् । कीदृक् । नृपः कर्तृभिः पादैहियते "बहुलम्" [५.१.२] इति कर्मणि गके पादहारकश्चरणापसार्यः । किंभूतैः । अस्माद्वाहारेः सकाशान्मासावरैर्मासेन लघुभिमासपूर्वैर्वा । वा समुच्चये । मासेन प्रथमैश्च । तथा योधिभिः सुभटान्विवैरवश्यं युध्यमानैर्वा । आवश्यके णिनिः ॥ घनघात्यान्परान्बाष्पच्छेद्यवघ्ननसमदीः । काकपेयाः स एकानविंशं भूतं नु निर्ममे ॥६१॥ ६१. स पाहारिरसृमदी रक्तसिन्धूः काकपेया निर्ममे पूर्णाश्चकारेत्यर्थः। कीटक्सन् । घनघात्यानत्यन्तं दृढाङ्गत्वाद्धनैर्लोहमुद्रैर्हन्तुं शक्यानत्यन्तायासेन घात्यानित्यर्थः । परान् शत्रून् बाष्पच्छेद्यवद्वाष्पैः श्वासैश्छेद्यास्तृणादीनिव घनत्यन्तमनायासेन हिंसन्नित्यर्थः । उत्प्रेक्ष्यते । एकानविंशमेकेन न विंशतिरेकानविंशतिस्तस्याः पूरणं भूतं नु किल । सुर १ असुर २ यक्ष ३ राक्षस ४ कश्मल ५ भस्मक ६ पितृ ७ १९ सी चतुस्रो'. २ ए सी लक्षी या डीलही चाशीति'. ३ सी जाति म. ४ ए सी 'कासान्मा. ५ ए सी डी सि. ६ बी सी णिनि ॥. ७बी मुरै'. ८सी पैः स्वास. ९पसी प्रेक्षते।. १० ए सी मुरा १ म. मुरा .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy