________________
३९२ व्याश्रयमहाकाव्ये
[ मूलराजः] सोध्यास्तोत्तलपादोग्रहस्तोपात्तवरत्रया।
गजं पादतलन्यञ्चद्भुवं हस्ताग्रमुद्गरम् ॥५४॥ ५४. स पाहारिरारोहवशादुदूर्ध्वस्तलपादः पादतलं यस्य स तथा सन्नग्रहस्तेन हस्ताग्रेणोपात्ता गृहीता या वरत्रा कक्षा तया गजमध्यास्तारोह । किंभृतं सन्तम् । हस्ताने शुण्डाने मुद्गरो यस्य तम् । तथा पादतलेन न्यञ्चन्ती भारातिरेकानमन्ती भूर्यस्य तम् ॥
अधंजरतीयम् जरत्यर्ध । इत्यत्र “जरत्यादिभिः" [५५] इति वा तत्पुरुषः ॥ द्वितीयसेना । तृतीयारिसेनया । तुर्यकुप्यम् । अग्रहस्त । उत्तलपादः । इत्यत्र "द्वित्रि" [५६] इत्यादिना वा तत्पुरुषः । पक्षे । भूद्वितीयम् । श्रीतृतीयम् । मापतुर्य । हस्तान । पादतल ॥
वर्षजाताहिभीमभ्रूरूयब्दजातहरेः समः ।
सैन्यं स स्वयमुटुक्तोस्थापयत्सामिविद्रुतम् ॥ ५५ ॥ ५५. स पाहारिः सामिविद्रुतमोपप्लुतं सैन्यमस्थापयत्समधीरयत्। कीटक्सन् । वर्ष जातस्य वर्षजातो योहिः सर्पस्तद्वन्दीमे कोपाटोपाद्रौद्रे भ्रुवौ यस्य सः । वर्षप्रमाणोहिः प्रौढत्वादतिभीम: स्यात् । तथा त्रयोब्दा वर्षाणि जातस्य व्यब्दजातो यो हरिः सिंहस्तस्य समः शौर्येण तुल्योत एव स्वयमुद्युक्तो रणायोचतः ॥
१सी सोध्या'.
१बी कक्ष्या त.२ ए ग्रे शृण्डा सी ग्रे मु. ३ सी रत्या'. ४ बीणो हि महिः. ५वी मः सौ. ६ सी °धत व.