________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
अहितान् । इत्यत्र " नञ् " [ ५१] इति तत्पुरुषः ॥ निवृत्यमानतद्भावश्वोतरपदार्थः । पर्युदासे नञ्समासार्थः । प्रसज्यप्रतिषेधे तु नम्पदान्तरेण संबध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव प्रवर्तते तत्रासामर्थ्येपि यथाभिधानं बाहुलकात्समासः । असूर्येपश्यान् । अपुनर्गेय । अश्राद्धभोजी । अलवणभोजी । अकार्णवेष्टकिकान् । अवत्सीयान् । अवध्य । असांतापिकः ॥
I
पूर्वकायेपरकायेधरकायोत्तराङ्गयोः ।
स्वान्क्षुण्णान्वीक्ष्य सायाह्नानिवद्राहारिरज्वलत् ॥ ५० ॥
३९०
५०. सायाह्ने संध्यायां योनिस्तद्वद्वाहारिरज्वलत्कोपाज्जाज्वल्यमानोभूत् । किं कृत्वा । स्वानात्मीयान्भटाञ् ज्ञातीन्वा वीक्ष्य । किंभूतान् । कायस्य पूर्वभागे हृदयादौ कायस्यापरभाग ऊर्वाद कायस्याधरभागे पादादावङ्गस्योत्तरभागे मूर्धादौ क्षुण्णान्प्रहतान् ।।
मध्याह्नार्कनिर्भः सोर्घदृष्टयैक्षिष्ट द्विषां बलम् ।
दृष्ट्यर्धेन च बाहू स्वौ दंष्ट्रिका परामृशन् ॥ ५१ ॥
५१. स प्राहारिर्मध्याह्नार्कनिभः कोपाटोपाचिभि: प्रहरद्वयसत्करविवज्जाज्वल्यमानः सन्नर्धदृष्टया बलावलेपादवज्ञया नेत्रार्धभागेन द्विषां बलं सैन्यमैक्षिष्ट । तथा दंष्ट्रिकार्ध परामृशन्स्वपौरुषावलेपोटक - र्षाद्दाढिकाकेशार्धभागं पाणिना गृह्णन्सन् पौरुषमदेन वक्रीकृताक्षत्वादृष्टर्धेन स्वौ बाहू चैक्षिष्ट ॥
पूर्वकाये । अपरकाये । अधरकाय । उत्तराङ्गयोः । इत्यत्र “पूर्वा" [५२] इत्यादिना तत्पुरुषः ॥
१ ए सी न्वीक्ष सा. २ सी 'भः सौ.
१ ए सी त्वादृष्टय. २ ए सी अध