________________
१३२ व्याश्रयमहाकाव्ये
[मूलाजः] आर्यकृती भेषजीमुमङ्गल्यपरीपापीभागव्य आयुः। सैकोचरतः समं समान्या भक्त्या केवलयास्य पीठदेव्यः॥४९॥ ४९. समान्या समानीसंज्ञया पीठदेव्या समं सहार्यकृत्यादिनाभ्यः पीठदेव्यो योगिन्योस्य प्राहारेः संबन्धिन्या केवलयैकया भक्त्या हेतुना सैकोत्तरत एवंनाम्नोब्धिस्थादद्रिविशेषादायुः । अनेनापि मौलबलागमनोक्तिः । यतो वेलाकूलाधिपतित्वात्तस्य क्रमागतास्ताः सांनिध्यकारिण्यो देव्यः॥
नीली नीला । प्रबदलूनी बदविलूना । इत्यत्र "कोच नान्नि वा" [२८] इति वा डीः ॥
केवली । मामकीषु । भागधेय्यः । पापी । अपरी । समान्या । आर्यकृती। सुमङ्गली । भेषजी । इत्यत्र "केवल" [२९] इत्यादिना डीः ॥ नानीति किम् । केवलया मच्या ॥ भाजीकाळी कुशीरदायां नागीभिः कुम्भस्थलीभिरुच्चाम् । अधिकटिकबरीजुषोध्यरोहन गुणगोणी गजतां निषादिनोपि ५०
५०. अधिकटिकबरीजुष: श्रोणी यावत्प्रलम्बमानवेणीका निषादिनोपि मौलबलसंबन्धिनो हस्त्यारोहाचै गजतां गजौघमध्यारोहन् । कादशीम् । भाजी पंकशाकस्तद्वत्कालीं कृष्णां तथा कुश्ययोविकारस्तद्वन्निबिडास्तीक्ष्णाः प्रलम्बाश्च ये रदा दन्तास्वैरभ्यामुत्कृष्टां तथा नागीभिः स्थूलाभिः कुम्भस्थलीभिरुच्चामुन्नतां तथा गुणानां शौर्यादीनां गोपीमिव गुणगोणी गुणस्थानमित्यर्थः । अस्य च वृत्तस्य पूर्वार्धे नागी १५ सी °णी जगता. १५ सी 'ध्यकरि'. २ ए सी काना'. ३ ए सी जगतां. ४ बी पकः गा'. ५ सी गोणी गु. ६बी डी नागीका. सी नागीकाली कु.