SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २१८ न्याश्रयमहाकाव्ये [ मूलराजः ] यावी बकस्तिमीन्मत्स्याननुलक्ष्यीकृत्य वप्रे नद्यादितटेस्थात् । कीदृक्सन् । अक्ष्णा काणस्तिमिग्रहणायाधोबद्धदृक्त्वेन संकोचितैकाक्षत्वात्काण इव भवन्नित्यर्थः । तथा पदा पादेन खखो मायित्वात्तिमिविश्वासनाय स्वोडषन्मन्दं मन्दं गच्छंश्चेत्यर्थः । युक्तं चैतत् । यतः खलाः प्रायेण बाहुल्येन मायिनः स्युः । बकश्च जात्योप्रत्वात्खलः । शरदि ह्यनगावे स्वच्छे च जले सुखेन दृश्यांस्तिमीने प्रहीतुं बका नद्यादितटेषु विचरन्ति ॥ गोत्रेण पुष्करावर्त किं त्वया गर्जितैः कृतम् । विद्युतालं भवत्वद्भिर्हसा ऊचुविदं घनम् ॥ १६ ॥ १६. हंसा घनं मेघमिदं न्वेतदिवोचुः । यथा गोत्रेण संतानेन ह पुष्करावर्त पुष्करावर्तगोत्र मेघ स्वसमयाभावेन निष्फलत्वात्त्वया 3 1 किम् । किमिति प्रतिषेधेव्ययम् । एवं कृतमलं भवत्वित्येतेपि । कृतमित्यकारान्तोनव्ययोपि । त्वया तव गर्जितैर्विद्युताद्भिर्जलैश्च सृतमित्यर्थः । शरदि हि हंसाः कलं शब्दायन्ते तत्प्रतिकूला घनगर्जितादयश्च स्तोकं स्तोकं प्रादुर्भवन्तीत्येवमाशङ्का ॥ अक्ष्णा काणः । पदा खञ्जः । प्रकृत्या शठः । प्रायेण मायिनः । गोत्रेण पुष्करावर्त । जात्योप्रः । इत्यत्र “यद्भेदैस्तद्वदाख्या" [ ४६ ] इति तृतीया ॥ प्रायेण मायिन इत्यत्र प्रायशब्दो बाहुल्यवचनस्तस्य च मेदो मायित्वं यथक्ष्णः काणत्वं मायित्वेन च बाहुल्यवतां खेलानामाख्या । यथा काणत्वेन काणाक्षियुक्तस्य नरस्याख्येति तद्वदाख्यावाचिनः प्रौयान्तृतीया ॥ ३ एफ निःफल. ४ सी डी सी न्ते नात्प्र'. डी 'न्ते तान्प्रति '. ९ डी एफू थाणा का . णाक्षयु. १३ एफ् प्रायस्तृ. १० बी १ बी न् गृही'. २ सी स्वस्वस किमपि . ५ सी डी कृत्यमि ६ ए न्ते न त ७ ए सी डी के प्रा. ८ ए शङ्काः ॥ खलना'. ११ एफू 'त्वे का ं. १२ एफ्
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy