________________
१३२
व्याश्रयमहाकाव्ये
[ मूलराज : ]
विराजमान यथा त्वय्युदिते सति यत्सुहृदादीन् मुक्त्वा शत्रूणां स्वशिशून्मुक्त्वाशत्रुभार्याणां च क्रोष्टुवत्पलायनं तत्कियत् । यतोतिभयादेषां मरणमपि संभाव्यते ॥
ोष्टरि । क्रोष्टोः । इत्यन्त्र " टादौ स्वरे वा" [ ९२] इति वा तृजादेशः ॥ टा
1
दाविति किम् । क्रोष्टुन || क्रोष्टृन् इत्यपि कश्चित् ॥
क्रोष्ट्री । इत्यत्र 'स्त्रियाम्" [ ९३] इति तृजादेशः || चतुर्थः पादः समर्थितः ॥
प्रेयश्चतस्रः मियति ईशास्तिस्रश्वतत्रोपि वधूर्विहाय । प्रेयश्वतु श्रुतिभिस्त्रिमृतवत्रोद्गते सांध्यविधौ यतन्ते ॥ ९ ॥
९. श्रुतिभिर्वदैः कृत्वा प्रेयस्यो वल्लभाश्वतस्त्रो यस्य गज्ञो हे प्रेयश्चतुकाभिप्रेतवेदचतुष्टयीक तिस्र ऋग्यजुः सामवेदलक्षणा मृर्तयां यस्य । गर्हि त्रयीमयां वर्ण्यते । तस्मिंस्त्रिमूर्तावत्रार्क उड़ते सतीशा ईश्वरजना: सांध्यविधौ प्रभातसंध्यावन्दनादिकृत्ये यतन्ते प्रवर्तन्ते । किं कृत्वा । आस्तामेका द्वे वा तिम्रोपि चतस्त्रोपि च वधूर्विहाय । यतः कीदृशाः । प्रेयस्यञ्चतत्रां येषां ते प्रेयश्चतस्त्रो भार्याचतुष्टयान्विताः । तथ प्रियतिस्रः प्रियात्रयान्विताश्च । एतेनात्यन्तकामिनोप्येतत्सांध्यकृत्यं कुवन्ति । तस्मात्त्वमपि कुर्विति सूच्यते । प्रेयश्वतस्त्र इत्यादौ संख्याया विशेव्यत्वेन विवक्षितत्वाद् "विशेषणसर्वादि" [ ३. १. १५० ] इत्यादिना न प्राग् निपातो विशेषणभूतायाः संख्यायास्तत्र प्राग् निपातात् ॥ सतिस्त्रि भाभिः सुतिसर्युदञ्चच्चतस्त्रि चश्चश्चतसर्यमुष्मिन् ।
I
निधौ श्रुतीनां तिसृणां नवार्क जगन्ति राजच्चतसृणि दिग्भिः १०
१०. अमुष्मिन्प्रत्यक्षे नवार्के सति जगन्ति दिग्भिः कृत्वा राजन्त्यो
१ एफ शत्रुभा २ एफ् ': ज° ३ बी मेकां द्वे ४ "था प्रियास्तिस्रो येषां ते प्रि ५ एफ् ध्यविधि कु. ६ एफू संध्याया.