________________
प्रथमः सर्गः ।
भवादृकीदृगेतस्मिन्नतिसर्वे यदीर्ष्यसि ।
उत्तरे कोशले मत्र इत्थमस्योद्यमे भवत् ।। १४९ ॥
[६० १.४.६. ]
१४८,१४९. अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले । सामीप्यकाधारेत्र सप्तमी । उत्तरकोशलाख्यनृपसमीपे मन्त्रः कोशलनृपमब्रिणामभूत् । कथमित्याह । हे राजंस्त्वादृशो भवत्सदृशो भूपोस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मायेतस्मै राज्ञे वासव इन्द्रोप्यश्लाघिष्ठ । यतः किं भूताय । द्वकयोर्द्वयो: शासित्रे रक्षित्रे । कयोर्द्धकयोरित्याह । यो: स्वर्गस्य तथा भुवः पृथ्व्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता । न्यायकरमहोपार्जितधनैर्यागान्कारयन्द्योश्च शास्ता । यतः
3
66
यज्ञेषु वह्नौ विधिवद्धुतं देवानामुपतिष्ठते "
इति श्रुतिः । तथाचोक्तं रघौ ।
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ १.२६ ।। इति ।
अतिसर्वे बलादिना विश्वत्रयेप्युत्कृष्टत्वात्सर्वमतिक्रान्त एतस्मिन्मूलराजविषये हे कोशलेश्वर यरवमीर्ष्यसि कोयं मत्पुर इति यन्न क्षाम्यसि तद्भवादृक्कीदृक् कीदृशः । कियन्मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेतच्छब्दौ द्वावप्यनुवाद्यमात्रार्थप्रतीतिकृतौ । यथा
1
यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
१ सी 'अस्यो'. मस्त स्मि.
९३
२ सी शो भू. ३ एफू 'ईयो.
५ ए बी लोक इत्यत्र.
४ बी सी एफ