________________
ધર્મબિંદુપ્રક૨ણ
आगमबहुमानश्चैवमुत्पादनीयः
બીજો અધ્યાય
परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ।। ५१ ।। उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः || ५२॥ अर्थादावविधानेऽपि तदभावः परं नृणाम्। धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः || ५३|| तस्मात् सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते। लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः || ५४ || शास्त्रयत्न इति शास्त्रे यत्नो यस्येति समासः, पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ||५५।। न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला || ५६ || यः श्राद्धो मन्यते मान्यान् अहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ ५७ ॥ यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ।।५८।। मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम्। अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः || ५९ ।। शास्त्रे भक्तिर्जगद्वन्यैर्मुक्तिदूती परोदिता ।
अत्रैवेयमतो न्याय्या तव्प्राप्त्यासन्नभावतः || ६० ।। (योगबिन्दौ २२१-३०) अत्रैव इति मुक्तौ एव, इयमिति शास्त्रभक्तिः, तत्प्राप्त्यासन्नभावत इति मुक्तिप्राप्तिसमीपभावात् इति ॥९॥
શ્રોતાને આગમમાં પ્રવેશ કરાવવો.
શ્રોતાને આગમો (= શાસ્ત્રો) પ્રત્યે બહુમાન ઉત્પન્ન કરાવીને આગમમાં પ્રવેશ કરાવવો. આગમો પ્રત્યે બહુમાન આ પ્રમાણે ઉત્પન્ન કરાવવોઃ
“અલ્પસંસારી, માર્ગાનુસારી, બુદ્ધિમાન અને • શ્રદ્ધારૂપી ધનથી યુક્ત જીવ • અહીં શ્રદ્ધા એટલે અનુષ્ઠાનની અભિલાષા.
५४