________________
ધર્મબિંદુપ્રકરણ
પહેલો અધ્યાય
- શ્રીમંતની સેવાના દૃષ્ટાંતથી પ્રસિદ્ધ બનેલી આરાધના, અર્થાત્ દરિદ્ર માણસ ધનની આશાથી શ્રીમંતની જેવી રીતે સેવા કરે તે રીતે વૃત્તસ્થ અને જ્ઞાનવૃદ્ધની સેવા કરવી. સમ્યજ્ઞાન અને સમ્યક્રક્રિયા રૂપ ગુણને ભજનારા પુરુષોની જો સારી રીતે સેવા કરવામાં આવે તો તેઓ સદુપદેશ આદિ ફલોથી અવશ્ય ફળે છે. (શાસ્ત્રવાર્તા સમુચ્ચયમાં) કહ્યું છે કે “સદા શુભ ઉપદેશ સાંભળવા મળે, ધર્મચારી (= साधु) मोना हशन थाय, स्थाने विनय थाय- ॥ साधुसेवार्नु भोटुं३॥ छ." (४८)
तथा-(२८) परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्तिः॥५०॥ इति ।
इह धर्मार्थकामास्त्रिवर्गः, तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यतः सर्वप्रयोजनसिद्धिः सोऽर्थः, आभिमानिकरसानुविद्धा यतः सर्वेन्द्रियप्रीतिः स कामः, ततः परस्परस्य अन्योन्यस्य अनुपघातेन अपीडनेन, अत एव अन्योन्यानुबद्धस्य परस्परानुबन्धप्रधानस्य त्रिवर्गस्य प्रतिपत्तिः आसेवनम्, तत्र धर्मार्थयोस्पघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम्? धर्मातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात्, बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम्, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद् धर्माबाधनेन कामाऽर्थयोर्मतिमता यतितव्यम्, यस्त्वर्थ-कामावुपहत्य धर्ममेवोपास्ते तस्य यतित्वमेव श्रेयो न तु गृहवासः, इति तस्यार्थ-कामयोरप्याराधनं श्रेय इति। तथा तादात्विक-मूलहरकदर्याणां नासुलभः प्रत्यवायः, तत्र यः किमप्यसंचिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं संचिनोति न तु क्वचिदपि व्ययते स कदर्यः, तादात्विक-मूलहरयोरायत्यां नास्ति कल्याणम्, किन्त्वर्थभ्रंशेन धर्म-कामयोर्विनाश एव, कदर्यस्य त्वर्थसंग्रहो राज-दायादतस्कराणामन्यतमस्य निधिः, न तु धर्म-कामयोर्हेतुः, अत एतत्पुरुषत्रयप्रकृतिपरिहारेण मतिमता अर्थोऽनशीलनीयः, तथा नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति, न कामासक्तस्य समस्ति चिकित्सितम्, न तस्य धनं धर्मः शरीरं वा यस्य स्त्रीष्वत्यन्तासक्तिः, विरुद्धकामवृत्तिर्न चिरं नन्दति, अतो धर्मार्थाबाधनेन कामे प्रवर्तितव्यमिति पर्यालोच्य परस्पराविरोधेन धर्मार्थकामासेवनमुपदिष्टमिति ।।५०।।
४८