________________
ધર્મબિંદુપ્રકરણ
આઠમો અધ્યાય
अथ स्वास्थ्यस्वरूपमाह
स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः ॥४७॥५२८॥ इति ।
स्वास्थ्यम् अस्वास्थ्यविलक्षणं पुनः निरुत्सुकतया औत्सुक्यपरिहारेण प्रवृत्तेः सर्वकृत्येषु ।।४७||
હવે સ્વાથ્યનું સ્વરૂપ કહે છે :| સર્વકાર્યોમાં ઉત્સુકતા છોડીને થતી પ્રવૃત્તિથી સ્વાથ્યની ઉત્પત્તિ થાય છે. (४७)
एवं च सति यत्सिद्धं तदाहपरमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेव ॥४८॥५२९॥ इति।
परमस्वास्थ्यहेतुत्वात् चित्तविप्लवपरिहारेण प्रकृष्टस्वावस्थाननिमित्तत्वात् परमार्थतः तत्त्ववृत्त्या स्वास्थ्यमेव 'निरुत्सुकतया प्रवृत्तेः' इति संबध्यते, सा च भगवति केवलिनि समस्ति इति सिद्धं यदुत न तस्य क्वचिदौत्सुक्यमिति ।।४८।।
આ પ્રમાણે થયે છતે જે સિદ્ધ થયું છે તે કહે છે :
ઉત્સુકતા છોડીને થતી પ્રવૃત્તિ પરમસ્વાથ્યનો = માનસિક ઉપદ્રવોનો ત્યાગ કરીને પોતાનામાં રહેવાનો ઉત્કૃષ્ટ હેતુ છે. આથી પરમાર્થથી ઉત્સુકતા છોડીને થતી પ્રવૃત્તિ જ સ્વાથ્ય છે. અને તે (= ઉત્સુકતા છોડીને થતી પ્રવૃત્તિ) કેવલી ભગવાનમાં છે. આથી સિદ્ધ થયું કે કેવલી ભગવાનને કોઈ વસ્તુમાં ઉત્સુકતા નથી. (૪૮)
___ ननु भवेऽपवर्गे चैकान्ततो निःस्पृहस्य कथं विहितेतरयोरर्थयोरस्य प्रवृत्ति-निवृत्ती स्यातामिति, उच्यते, द्रव्यत एव पूर्वसंस्कारवशात् कुलालचक्रभ्रमवत् स्याताम् । एतत् भावयन्नाहभावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहारः ॥४९॥५३०॥ इति।
__भावसारे मानसविकल्पपुरःसरे, हिशब्दः पूर्वोक्तभावनार्थः, प्रवृत्त्यप्रवृत्ती सर्वत्र विहितेतरयोरर्थयोर्विषये, किमित्याह-प्रधानो भावरूपः व्यवहारो लोकाचाररूपः, इदमुक्तं भवति-यैव मनःप्रणिधानपूर्विका क्वचिदर्थे प्रवृत्तिर्निवृत्तिर्वा तामेव तात्त्विकी तत्त्ववेदिनो वदन्ति, न पुनरन्याम्, यतोऽनाभोगादिभिः परिपूर्णश्रामण्यक्रियावन्तोऽपि अभव्यादयो न तात्त्विकश्रामण्यक्रियावत्तया समये व्यवहृताः, तथा संमूर्छनजमत्स्यादयः
३८१